वीभत्सु
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वीभत्सुः, पुं, (बीभत्सतीति । वध + सन् + उ । युद्धे न्यायपथेन शत्रुहननादस्य तथात्वम् । एतन्निरुक्तिरुक्ता । यथा, महाभारते ४ । ४२ । १८ । “न कुर्य्यां कर्म्म बीभत्सं युध्यमानः कथञ्चन । तेन देवमनुष्येषु बीभत्सुरिति विश्रुतः ॥”) अर्ज्जुनः । यथा, -- अर्ज्जुनः फाल्गुनो जिष्णुः किरीटी श्वेत- वाहनः । बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः ॥ इति महाभारते । ४ । ४२ । ९ ॥
