सामग्री पर जाएँ

वीरतरासनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वीरतरासनम्, क्ली, (वीरतराणां साधकश्रेष्ठानां आसनम् ।) आसनविशेषः । यथा, -- “मृदु कोमलमास्तीर्णं संग्रामपतितं हि यत् । जन्तुव्यापादितं वापि मृतं वा नरमासनम् ॥ गर्भच्युतं त्वचं वापि नारीणां योनिजां त्वचम् । सर्व्वसिद्धिप्रदं देवि सर्व्वतोऽतिसमृद्धिदम् । त्वचं वा यौवनस्थानां कुर्य्याद्बीरतरासनम् ॥” इति मुण्डमालातन्त्रे ३ पटलः ॥

"https://sa.wiktionary.org/w/index.php?title=वीरतरासनम्&oldid=167829" इत्यस्माद् प्रतिप्राप्तम्