सामग्री पर जाएँ

वीरासनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वीरासनम्, क्ली, (वीराणां साधकानामासनम् ।) भित्त्याद्यनाश्रित्योपवेशनम् । यथा, -- “दिवानुगच्छेत्ता गास्तु तिष्ठन्नूर्द्ध्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत् ॥” इति प्रायश्चित्ततत्त्वे मनुः ॥ अन्यच्च । “एकपादमथैकस्मिन् विन्यसेदुरु संस्थितम् । इतरस्मिन् तथा पश्चाद्वीरासनमिदं विदुः ॥” इति घेरण्डसंहिता ॥ (यथा, रघुवंशे । १३ । ५२ । “वीरासनैर्ध्यानजुषामृषीणा- ममी समध्यासितवेदिमध्याः । निर्व्वातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥”)

"https://sa.wiktionary.org/w/index.php?title=वीरासनम्&oldid=167874" इत्यस्माद् प्रतिप्राप्तम्