वीर्य्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वीर्य्यम्, क्ली, (वीरे साधु । तत्र साधुः इति यत् । यद्बा, वीर्य्यतेऽनेनेति वीर विक्रान्तौ + “अचो यत् ।” ३ । १ । ९७ । इति यत् । यद्वा वीरस्य भावः । यत् ।) चरमधातुः । तत्पर्य्यायः । शुक्रन् ३ तेजः ३ रेतः ४ बीजम् ५ इन्द्रियम् ६ । इति मनुष्य- वर्गे अमरः ॥ वीर्य्यं शक्तिः सा च पृथिव्यादीनां यः सारभागः तदतिशयरूपा । सा द्विविधा चिन्त्याचिन्त्यक्रियाहेतुत्वेन । तत्र चिन्त्यक्रिया- हेतुर्या द्रव्यरसादीनां स्वस्वकर्म्मणि स्वभाव- सिद्धा शक्तिः । अचिन्त्यक्रियाहेतुश्च प्रभापर- पर्य्यायः । द्रव्याणां रसाद्यननुरूपकार्य्यकरण- शक्तिः । उक्तञ्च । “भूतप्रभावातिशयो द्रव्ये पाके रसे स्थितः । चिन्त्याचिन्त्यक्रियाहेतुर्वीर्य्यं धन्वन्तरेर्म्मतम् ॥” इति चक्रदत्तोपरि शिवदासीयटीका ॥ * ॥ परवीर्य्योदरपातदोषो यथा, -- “परवीर्य्यं यदुदरं कामतोऽकामतोऽपि वा । अहल्ये याति दैवेन तदुपायं निशामय ॥ अकामतो न दुष्टा सा प्रायश्चित्तेन शुद्ध्यति । कामभोगेन त्याज्या सा कर्म्मभोगेन शुद्ध्यति ॥ पितृपाके दैवपाके पूजायां नाधिकारिणी । षष्टिं वर्षसहस्राणि क्षयं कृत्वा स्वकर्म्मणः । प्रयाति भोगदेहं सा तस्यान्ते पापकर्म्मणः ॥” इति ब्रह्मवैवत्तै श्रीकृष्णजन्मखण्डे ४७ अध्यायः ॥ अतिशयशक्तिभागुत्साहः । इति स्वर्गवर्गे अमरः ॥ कर्म्मसु सुकरः प्रत्ययः उत्साहः । इति मधुः । कर्म्मसु दृढयत्नकारको भाघ उत्साहः । इति रमानाथः । कर्म्मसु प्रत्यय उत्साह इति नयनानन्दः । अशक्ये बलोद्यम उत्साह इति केचित् । स उत्साहः अतिशय- शक्तिभाक् वीर्य्यम् । अतिशयितोऽध्यवसायो वीर्य्यं साधु वीर्य्यमित्यर्थः । वीर्य्या स्त्री च वीर्य्यं वीर्य्य इति कोषान्तरम् । इति भरतः ॥ * ॥ बलम् । प्रभावः । इति नानार्थे अमरः ॥ (यथा, ऋग्वेदे । ३ । २५ । २ । “अग्निः सनोति वीर्य्याणि विद्वान् सनोति वाजममृताय भूषन् ॥” “वीर्य्याणि पशुपुत्त्रादिसम्पद्रूपाणि सामर्थ्यानि ।” इति तद्भाष्ये सायणः ॥ यथा च भागवते । ६ । १७ । ३१ । “ज्ञानवैराग्यवीर्य्याणां नहि कश्चिद्ब्यपाश्रयः ॥” शरीरसामर्थ्यम् । यथा, ऋग्वेदे । ४ । ५० । ७ । “स इद्राजा प्रतिजन्यानि विश्वाशुष्मेण तस्था- वभि वीर्य्येण ॥” “वीर्य्येण शरीरसामर्थ्येन ।” इति तद्भाष्य सायणः ॥ शक्तिः । यथा, मनौ । ११ । ३१ । “न ब्रह्मणो वेदयते किञ्चिद्राजनि धर्म्मवित् । स्ववीर्य्येणैव तान् शिष्यान्मानवानपकारिणः ॥ स्ववीर्य्याद्राजवीर्य्याच्च स्ववीर्य्यं बलवत्तरम् । तस्मात् स्वेनैव वीर्य्येण निगृह्णीयादरीन् द्बिजः ॥” मनःशक्तिः । यथा, भागवते । ४ । १८ । १५ । “कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् । हिरण्मयेन पात्रेण वीर्य्यमोजो बलं पयः ॥”) औषधानां वीर्य्यस्य स्थितिकाला यथा, -- “यामं कल्ककषायवीर्य्यमखिलं चूर्णञ्च पक्षत्रयं षण्मासान् घृतमोदकौ सहगुडौ मासत्रयं गुग्गुलोः । सिद्धानां रसभस्मनां सुविपुलं वीर्य्यञ्च वर्षत्रयं किञ्चिद्गन्धविवर्ज्जितं गुणपरं तैलं पुराणं महत् ॥” इति नारायणदासकृतपरिभाषा ॥ तेजः । इति मेदिनी ॥ चेतः । दीप्तिः । इति शब्दरत्नावली ॥
