वृकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृकः, पुं, (वृणोतीति । वृ + “सृवृभृशुषिमुषिभ्यः कक् ।” उणा० ३ । ४१ । इति कक् ।) कुक्कुर- प्रमाणहरिणघ्नजन्तुशिशेषः । घो~घ इति ख्यातः । हुण्डार इति हिन्दी भाषा । तत्पर्य्यायः । कोकः २ ईहामृगः ३ । इत्यमरः ॥ वत्सादनः ४ विरुक् ५ गोवत्सादी ६ छागभोजी ७ छाग- लान्त्री ८ जनाशनः ९ । इति राजनिर्घण्टः ॥ (यथा, भागवते । ३ । १० । २३ । “श्वा शृगालो वृको व्याघ्रो मार्ज्जारः शश- शल्लकौ ॥”) काकः । इत्युणादिकोषः ॥ (पोतकः । इत्युणादि- टीकाधृतविश्वः । ३ । ४१ ॥) वकवृक्षः । इति शब्दरत्नावली ॥ शृगालः । इति हारावली ॥ (यथा, मनुः । ८ । २३५ । “अजाविके तु संरुद्धे वृकैः पाले त्वनायति । यां प्रसह्य वृको हन्यात् पाले तत् किल्विषं भवेत् ॥” “वृकैः शृगालप्रभृतिभिः ।” इति मेघातिथिः ॥) क्षत्त्रियः । अनेकधूपः । सरलद्रवः । इति भरतधृतरभसः ॥ (तस्करः । इति निघण्टुः । ३ । २४ ॥ * ॥ वर्कते शत्रुप्राणानादत्ते इति । वृक आदाने + कः । वज्रः । इति निघण्टुः । २ । २० ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृकः [vṛkḥ], [Uṇ.3.41]

A wolf; पापारम्भकयोर्मृगीव वृकयो- र्भीरुर्गता गोचरम् Māl.5.24.

A hyena.

A jackal.

A crow.

An owl.

A robber.

A Kṣatriya.

Turpentine.

A compound perfume, a mixture of various fragrant articles.

N. of a demon.

N. of a tree (बकवृक्ष).

N. of a fire in the stomach.

A plough.

The moon; Nir.5.2.

The sun; Nir.5.21. -Comp. -अरातिः, -अरिः a dog.

उदरः an epithet of Brahman.

of Bhīma, the second Pāṇḍava prince; पौण्ड्रं दध्मौ महाशङ्खं भामकर्मा वृकोदरः Bg. 1.15; Ki.2.1; Ve.1.26. -कर्मन् a. wolfish. -दंशः a dog.

धूपः turpentine.

a compound perfume; वृकधूपं सर्जरसं शिलाजतु च सिक्थकम् Śiva B.3.17. -धूर्तः a jackal.

धूर्तकः a bear.

a jackal. -वाला a piece of timber at the side of a door.

"https://sa.wiktionary.org/w/index.php?title=वृकः&oldid=279342" इत्यस्माद् प्रतिप्राप्तम्