वृक्षाम्लम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृक्षाम्लम्, क्ली, (वृक्षस्याम्लम् ।) महाम्लम् । तेन्तु- लीति ख्यातम् । इति रायमुकुटः ॥ महादा । इति भरतादयः ॥ अम्बलकुटा । इति सार- सुन्दरी ॥ चुका । इति भानुदीक्षितादयः ॥ तत्पर्य्यायः । तिन्तिडीकम् २ चुक्रम् ३ । इत्य- मरः ॥ अम्लशाकम् ४ चुक्राम्लम् ५ तित्तिडी- फलम् ६ शाकाम्लम् ७ अम्लपूरम् ८ पूराम्लम् ९ रक्तपूरकम् १० चुडाम्लम् ११ वीजाम्लम् १२ फलाम्लकम् १३ अम्लवृक्षम् १४ अम्लफलम् १५ रसाम्लम् १६ श्रेष्ठाम्लम् १७ अत्यम्लम् १८ अम्लवीजम् १९ चुक्रफलम् २० । अस्य गुणाः । कटुत्वम् । कषायत्वम् । उष्णत्वम् । कफार्श- स्तृष्णासमीरोदरहृद्गदादिगुल्मातिसारव्रणदोष- नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम् । पक्वन्तु गुरु संग्राहि कटुकं तुवरं लघु ॥ अम्लोष्णं रोचनं रूक्षं दीपनं कंफवातकृत् । तृष्णार्शोग्रहणीगुल्मशूलहृद्रोगजन्तुजित् ॥” इति भावप्रकाशः ॥
