वृक्षायुर्व्वेद
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृक्षायुर्व्वेदः, पुं, (वृक्षस्यायुर्व्वेदः ।) तरुचिकित्- सादिशास्त्रम् । तद्यथा, -- धन्वन्तरिरुवाच । “वृक्षायुर्व्वेदमाख्यास्ये प्लक्षञ्चोत्तरतः शुभः । प्राग्वटो याम्यतस्त्वाम्रं आप्येऽश्वत्थं क्रमेण तु । दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमः ॥ उद्यानं गृहवासे स्यात् तिलान् वाप्यथ पुष्पितान् । गृह्णीयाद्रोपयेद्वृक्षान् द्विजं चन्द्रं प्रपूजयेत् ॥ ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवम् । नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे ॥ प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु कारयेत् । हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवम् ॥ जलाशयसमारम्भे वारणञ्चोत्तरात्रयम् । संपूज्य वरुणं विष्णुं पर्ज्जन्यं तत् समारभेत् ॥ अरिष्टाशोकपुन्नागशिरीषाश्च प्रियङ्गवः । अशोककदलीजम्बुस्तथा वकुलदाडिमाः ॥ सायं प्रातस्तु घर्म्मर्त्तौ शीतकाले दिनान्तरे । वर्षारात्रे भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥ उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् । स्थानात् स्थानान्तरं कार्य्यं वृक्षाणां द्वादशा- न्तरम् ॥ विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोध- नम् । विडङ्गघृतपक्वाक्तान् सेचयेच्छीतवारिणा ॥ फलनाशे कुलत्थैश्च माषैर्म्मुद्गैर्यवैस्तिलैः । घृतशीतपयःसेकः फलपुष्पाय सर्व्वदा ॥ आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च । गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् ॥ उत्सेकः सर्व्ववृक्षाणां फलपुष्पादिवृद्धिदः । मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ॥ विडङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदम् । सर्व्वेषामविशेषेण वृक्षाणां रोहवर्द्धनम् ॥” इत्याग्नेये महापुराणे वृक्षायुर्व्वेदः ॥ (अस्यान्यद्बिवरणं बृहत्संहितायां ५५ अध्याये द्रष्टव्यम् ॥)
