सामग्री पर जाएँ

वृजनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृजनम्, क्ली, (वृज + “कॄपॄवृजीति ।” उणा० २ । ८१ । इति क्युः ।) पापम् । इत्युणादिकोषः ॥ आका- शम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ निराकरणम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ (संग्रामः । यथा, ऋग्वेदे । १ । ६३ । ३ । “त्वं शुष्णं वृजने पृक्षे ॥” “वृजन इत्यादीनि त्रीणि संग्रामनामानि अत्र पूर्व्वे विशेषणे वृजने वर्ज्जनयुक्ते संग्रामे हि वीराः पुरुषा वर्ज्ज्यन्ते हिंस्यन्ते ।” इति तद्भाष्ये सासणः ॥ बलम् । इति निघण्टुः । २ । ९ ॥ यथा, ऋग्वेदे । १ । १६६ । १५ । “विद्यामेषं वृजनं जीरदानुम् ।” “वृजनं बलम् ।” इति तद्भाष्ये सायणः ॥ प्राणिजातम् । यथा, ऋग्वेदे । १ । ४८ । ५ । “जरयन्ती वृजनं पद्वदीयते ।” “वृजनं गमनशीलं जङ्गमं प्राणिजातं जर- यन्ती *** वृजनं वृजी वर्जने । वर्ज्यते इति वृजनं प्राणिजातम् । कॄ पॄ वृजिमन्दिनिधा- ञ्भ्यः क्युरिति क्युप्रत्ययः । कित्त्वाल्लघपधगुणा- भावः योरनादेशे प्रत्ययस्वरः ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=वृजनम्&oldid=167978" इत्यस्माद् प्रतिप्राप्तम्