सामग्री पर जाएँ

वृथादान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृथादानम्, क्ली, (वृथा निरर्थकं दानम् ।) निष्फल- दानम् । तत् षोडशविधम् । यथा, -- “देवपितृविहीनं यदीश्वरेभ्यः सदोषतः । दत्त्वानुकीर्त्तनाच्चैव वेदाग्निव्रतत्यागिने ॥ अन्थाबोपार्ज्जितं दानं व्यर्थं ब्रह्महणे तथा । गुरवेऽनृतवक्ता यः स्तेनाय पतिताय च ॥ कृतघ्नाय च यद्दत्तं सर्व्वदा ब्रह्मविद्विषे । पाचकाय च सर्व्वस्य वृषल्याः पतये तथा ॥ परिचारकाय भृत्याय सर्व्वत्र पिशुनाय च । इत्येतानि तु राजेन्द्र वृथादानानि षोडश ॥” इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः ॥ अन्यच्च । न्यायमार्गेण यद्दत्तं तत् सप्तविधमपि पुनर्नापहर्त्तव्यम् । यत् पुनरन्यायेन दत्तं तददत्तं षोडशमपि प्रत्याहर्त्तव्यमेव । इत्यर्थादुक्तं भवति । नारदेन च । “दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकम् ।” इति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतम् । “पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः ॥ अदत्तन्तु भयक्रोधशोकवेगरुजान्वितैः । तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥ बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम् । कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया च यत् ॥ अपात्रे पात्रमित्युक्ते कार्य्ये वा धर्म्मसंहिते । यद्दत्तं स्यादविज्ञानाददत्तमिति तत् स्मृतम् ॥” इति मिताक्षरा ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृथादान¦ न॰ कर्म॰।

१ निष्फलदाने स्मृतिप्रदर्शिते देवपित्रा-द्यर्थमिन्नेषु कार्य्येषु

२ दानभेदे च।
“देवपितृविहीनं यदीश्वरेर्भ्यः स्वदोषतः। दत्त्वामुकीर्त्तनाच्चैव वेदाग्निव्रतत्यागिने। अन्थायोपार्जितं दाकव्यर्थं ब्रह्महणे तथा। गुरवेऽनृतवक्त्राय स्तेनाय पति-ताय च। कृतघ्नाय च यद्दत्तं सर्वदा ब्रह्मविद्विषे। या-जकाय च सर्वस्य वृषल्याःपतये तथा। परिचारकायनृत्याव सर्वत्र पिशुनाय च। इत्येतानि तु राजेन्द्र!वृथादानानि षोडश” वह्निपु॰।
“न्यायमार्गेण यदृत्तंतत्मप्तविधमपि पुनर्नापहर्त्तव्यं थत् पुनरन्थायेन दत्तत{??}दत्तं षोडशप्रकारमपि पत्याहर्त्तव्यमेव इत्यर्थादुक्तंभवति। नारदेन च दत्तं सप्तविध--प्रोक्तमदत्तं षोड-शात्माम्” इति प्रतिपाद्य दक्षादसयोः{??}रूपं विवृतं यथा[Page4948-a+ 38]
“पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः। स्त्री-शुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः। अदत्तन्तु भय-क्रोधशोकवेगरुजांन्वितैः। तथोत्कोचपरिहासव्यत्यासच्छलयोगतः। वालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्जितम्। कर्त्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत्। अपात्रेपात्रमित्युक्ते कार्य्ये वा धर्मसंहिते। यद्दत्तं स्यादवि-ज्ञानाददत्तमिति तत् स्मृतम्” मिता॰ अदत्तशब्दे दृश्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृथादान¦ n. (-नं) Unprofitable donation, gift to encomiasts, harlots, wrestlers, money lost at play, &c. E. वृथा vain, and दान giving.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृथादान/ वृथा--दान n. a useless or improper gift (as a gift promised to courtesans , wrestlers etc. ; accord. to some there are 16 kinds of these gifts) Mn. viii , 139.

"https://sa.wiktionary.org/w/index.php?title=वृथादान&oldid=280611" इत्यस्माद् प्रतिप्राप्तम्