सामग्री पर जाएँ

वृद्धः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृद्धः, पुं, वृद्धदारकः । इति राजनिर्घण्टः ॥

वृद्धः, त्रि, (वृधु वृद्धौ + क्तः । “यस्य विभाषा ।” ७ । २ । १५ । इति नेट् ।) गतयौवनः । प्रवृद्धः । (यथा, मनुः । २ । १५६ । “न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥”) पण्डितः । इति मेदिनी ॥ आद्यस्य पर्य्यायः । प्रवयाः २ स्थविरः ३ जीनः ४ जीर्णः ५ जरन् ६ । इत्यमरः ॥ यातयामः ७ जर्ज्जरः ८ । इति राजनिर्घण्टः ॥ पलितः । इति जटाधरः ॥

"https://sa.wiktionary.org/w/index.php?title=वृद्धः&oldid=168047" इत्यस्माद् प्रतिप्राप्तम्