वृद्धा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृद्धा, स्त्री, (वृद्ध + टाप् ।) गतयौवना । वुडी इति भाषा । तत्पर्य्यायः । पलिक्नी २ । इत्य- मरः ॥ पलिता ३ । इति भरतः ॥ स्थविरा ४ निष्कला ५ जरती ६ गतार्त्तवा ७ । इति राजनिर्घण्टः ॥ तदवस्थाकालो यथा, -- “आषोडशाद्भवेद्बाला तरुणी त्रिंशता मता । पञ्चपञ्चाशतः प्रौढा वृद्धा भवति तत्परम् ॥” इति कालिदासः ॥ * ॥ अपि च । “बालेति गीयते नारी यावद्वर्षाणि षोडश । ततस्तु तरुणी ज्ञेया द्बात्रिंशद्बत्सरावधि ॥ तदूर्द्ध्वमधिरूढा स्यात् पञ्चाशद्वत्सरावधि । वृद्धा तत्परतो ज्ञेया सुरतोत्सवर्ज्जिता ॥” इति भावप्रकाशः ॥ * ॥ तस्याः सम्भोगे दोषो यथा, -- “बाला तु प्राणदा प्रोक्ता युवती प्राणहारिणी । प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥ निदाघशरदोर्ब्बाला प्रौढा वर्षावसन्तयोः । हेमन्ते शिशिरे योग्या न वृद्धा क्वापि शस्यते ॥ नार्त्तवे षोडशाद्वर्षात् सप्तत्याः परतो न च । आयुष्कामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति ॥ पञ्चपञ्चाशतो नारी सप्तसप्ततितः पुमान् । द्वावेतौ न प्रसूयेते प्रसूयेते विपर्य्ययात् ॥” इति राजवल्लभः ॥ * ॥ “शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥” इति चाणक्यम् ॥ * ॥ अङ्गुष्ठः । इति शब्दरत्नावली ॥ महाश्राव- णिका । इति राजनिर्घण्टः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृद्धा स्त्री।
पक्वकेशी
समानार्थक:वृद्धा,पलिक्नी
2।6।12।2।1
आलिः सखी वयस्याथ पतिवत्नी सभर्तृका। वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृद्धा¦ स्त्री वृध--क्त।
१ गतयौवनायां स्त्रियाम्।
२ अङ्गुशब्दच॰।
३ महाश्रावणिकायां राजनि॰। स्त्रीणां वयःकालविभागो यथा
“आषोडशाद् भवद्वाला तरुणी त्रिंशता मता। पञ्चपञ्चाशतः प्रौढा वृद्धा भवति तत्परम्” इति कालि-दासः।
“बालेति गीयते नारी यावद्वर्षाणि षोडश। ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि। तदूर्द्ध्वमधि-रुढा स्यात् पञ्चाशद्वत्सरावधि। वृद्धा तत्परको ज्ञेयासुरतोत्सववर्जिता” भावप्र॰। तस्याः सम्भोगे दोषो यथा
“वाला तु प्राणदा प्रोक्ता युवती प्राणहारिणी। घ्रौढाकरोति वृद्धत्वं वृद्धा मरणमादिशेत्। निदाघशरदो-र्बाला प्रौढा{??}र्षावसन्तयोः। हेमन्ते शिशिरे योग्यान वृद्ध्वा क्वापि शस्यते। नार्वाक् तु षोडशाद्वर्षात् सप्तत्याःपरतो न च। आयुष्कामो नरः स्त्रीभिः संभोगं कर्तु-मर्हति। पञ्चपञ्चाशतो नारी सप्तसप्ततिकः पुमान्। द्वावेतौ न प्रसूयेते प्रसूयेते विपर्य्ययात्” राजवल्लभः।
“शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि। प्रभाते[Page4949-a+ 38] मैथनं निद्रा सद्यः प्राणहराणि षट्” चाणक्यनीतिसारः
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृद्धा [vṛddhā], 1 An old woman.
A female descendant.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृद्धा f. an old woman MBh. Ka1v. etc.