सामग्री पर जाएँ

वृन्दावनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृन्दावनम्, क्ली, स्वनामख्याततीर्थम् । तन्नामकारणं यथा, -- श्रीनारायण उवाच । “पुरा केदारनृपतिः सप्तद्वीपपतिः स्वयम् । आसीत् सत्ययुगे ब्रह्मन् सत्यधर्म्मरतः सदा ॥ स रेमे सह नारीभिः पुत्त्रपौत्त्रगणैः सह । पुत्त्रानिव प्रजाः सर्व्वाः पालयामास धार्म्मिकः ॥ कृत्वा शतक्रतुं राजा लेभे त्विन्द्रत्वमीप्सितम् । कृत्वा नानाविधं पुण्यं फलकाङ्क्षी न च स्वयम् ॥ नित्यं नैमित्तिकं सर्व्वं श्रीकृष्णप्रीतिपूर्ब्बकम् । केदारतुल्यो राजेन्द्रो न भूतो भविता पुनः ॥ पुत्त्रेषु राज्यं संन्यस्य प्रिया त्रैलोक्यमोहिनी । जैगीषव्योपदेशेन जगाम तपसे वनम् ॥ हरेरैकान्तिको भक्तो ध्यायते सन्ततं हरिम् । शश्वत् सुदर्शनं चक्रमस्ति यत्सन्निधौ मुने ॥ चिरं तप्त्वा नृपश्रेष्ठो गोलोकञ्च जगाम सः । केदारनामतीर्थं तत्तन्नाम्ना च बभूव ह ॥ तत्राद्यापि मृतः प्राणी सद्यो मुक्तो भवेत् ध्रुवम् । कमलांशा तस्य कन्या नाम्ना वृन्दा तपस्विनी ॥ न वव्रे सा वरं कञ्चित् योगशास्त्रविशारदा । दत्तं दुर्व्वाससा तस्यै हरेर्मन्त्रं सुदुर्ल्लभम् ॥ सा विरक्ता गृहं त्यक्त्वा जगाम तपसे वनम् । षष्टिं वर्षसहस्राणि तपस्तेपे सुनिर्ज्जने ॥ आविर्ब्बभूव श्रीकृष्णस्तत्पुरो भक्तवत्सलः । तत्र कैशोरवयसं नित्यमानन्दविग्रहम् ॥ गतिर्नाट्यं कथागानं स्मितवक्त्रं निरन्तरम् । शुद्धसत्त्वैः प्रेमपूर्णैर्व्वैष्णवैस्तद्वनाश्रयम् ॥ पूर्णब्रह्मसुखे मग्नं स्फुरत्तन्मूर्त्तितन्मयम् । प्रमत्तकोटिभृङ्गाद्यैः कूजत्कलमनोहरम् ॥ कपोतशुकसंगीतमुन्मत्तालिसहस्रकम् । भुजङ्गशत्रुनृत्याद्यं सकान्ताभोदविभ्रमम् ॥ नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् । सुस्निग्धसौरभाश्रान्तमुग्धीकृतजगत्त्रयम् ॥ मन्दमारुतसंसिक्तवसन्तऋतुसेवितम् । पूर्णेन्दुनित्याभ्युदयं सूर्य्यमन्दांशुसेवितम् । अदुःखसुखविच्छेदं जरामरणवर्ज्जितम् । अक्रोधगतमात्सर्य्यं अभिन्नमनहंकृतम् ॥ पूर्णानन्दामृतरसं पूर्णप्रेमसुखावहम् । गुणातीतं परं धाम पूर्णप्रेमस्वरूपकम् ॥ यत्र वृक्षादिपुलकैः प्रेमानन्दाश्रुवर्षितम् । किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते ॥ गोविन्दाङ्ग्रिरजस्पर्शान्नित्यवृन्दावनं भुवि । सहस्रदलपद्मस्य वृन्दारण्यं वराटकम् ॥ यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये । गुह्याद्गुह्यतमं रम्यं मेध्यं वृन्दावनस्थितम् ॥ अक्षरं नित्यमानन्दं गोविन्दस्थानमव्ययम् । गोविन्ददेहतोऽभिन्नं पूर्णब्रह्म सुखाश्रयम् ॥ मुक्तिस्तत्र यतः स्पर्शात्तन्माहात्म्यं किमुच्यते । तस्मात् सर्व्वात्मना देवि ! हृदिस्थं कुरु तद्वनम् ॥ वृन्दावनविहारेषु कृष्णं कैशोरविग्रहम् । अन्यारण्येषु स्थानेषु बाल्यपौगण्डयौवनम् ॥ कालिन्दीमकरन्दोऽस्य कर्णिकायाः प्रदक्षिणम् । नानानिर्म्माणगम्भीरं जलसौरभमोहनम् । आनन्दाहततन्मिश्रमकरन्दधनालयम् । पद्मोत्पलाद्यैः कुसुमैर्नानावर्णैः समुज्ज्वलम् ॥ चक्रवाकादिविहगैर्म्मञ्जुनानाकलस्वनैः । शोभमानं जलं रम्यं तरङ्गातिमनोहरम् ॥ तस्योभयतटी रम्या शुद्धकाञ्चननिर्म्मिता । गङ्गाकोटीगुणः प्रोक्तो यत्र स्पर्शवराटकः ॥ कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः । कालिन्दीकर्णिकाकृष्टमभिन्नमेकविग्रहम् ॥” इति पाद्मे पातालखण्डे १ अध्यायः ॥ (इदमेव भगवत्याः पीठस्थानानामन्यतमम् । यथा, देवीभागवते । ७ । ३० । ६९ । “रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--sacred to राधा. Br. III. ३३. २४; ३६. ३२. M. १३. ३८; Vi. V. २५. 4.

"https://sa.wiktionary.org/w/index.php?title=वृन्दावनम्&oldid=437833" इत्यस्माद् प्रतिप्राप्तम्