वृन्दावनेश्वरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृन्दावनेश्वरः, पुं, (वृन्दावनस्य ईश्वरः ।) श्रीकृष्णः । यथा, -- “यन्नखेन्दुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः । गुणत्रयमतीतं तं वन्दे वृन्दावनेश्वरम् ॥” अपि च । “पुरुषः प्रकृतिश्चाद्यौ राधावृन्दावनेश्वरौ । प्रकृतिर्विकृतिः सर्व्वं विना वृन्दावनेश्वरम् ॥” इति पाद्मे पातालखण्डे ९ अध्यायः ॥ * ॥ अन्यच्च । “यदा नित्यः स्वयं कृष्णः सच्चिदानन्दविग्रहः ॥ षण्णां गुणानां शीली तु भगवच्छब्दसंज्ञितः ॥ नित्यधामा गुणातीतः साक्षाद्वृन्दावनेश्वरः । असौ प्रकटलीलायां वासुदेवोऽभवत् प्रभुः ॥ गोपीनां कामपूर्णाय नित्यानां रमणाय च । गोपालानां विनोदाय स्वयं नन्दसुतोऽभवत् ॥” इति पाद्मोत्तरखण्डे ६७ अध्यायः ॥
