वृश्चिकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृश्चिकः, पुं, (व्रश्चू छेदने + “वृश्चिकृष्योः किकन् ।” उणा० २ । ४० । इति किकन् ।) शूककीटः । इत्यमरः ॥ शुयापोका इति भाषा ॥ तत्पर्य्यायः । शूककीटकः २ । इति शब्दरत्नावली ॥ कीट- विशेषः । विछा इति भाषा । तत्पर्य्यायः । अलिः २ द्रोणः ३ वृश्चनः ४ । इति राज- निर्घण्टः ॥ द्रुणः ५ । इति शब्दरत्नावली ॥ पृदाकुः ६ अरुणः ७ अली ८ । इति जटा- धरः ॥ * ॥ वृश्चिकविषस्य लक्षणमाह । “दहत्यग्निरिवादौ च भिनत्तीवोर्द्ध्वमाशु च । वृश्चिकस्य विषं याति पश्चाद्दंशोऽवतिष्ठते ॥” असाध्यवृश्चिकदष्टस्य लक्षणमाह । “दष्टोऽसाध्यैस्तु हृद्घ्राणरसनोपहतो नरः । मांसैः पतद्भिरत्यर्थं वेदनार्त्तो जहात्यसून् ॥” असाध्यैर्व्वृश्चिकैस्तेषामेवानुवृत्तैः । हृदादिषू- पहतः हृदादिकार्य्यरहितो भवति । अत्यर्थं वेदनार्त्त इत्यन्वयः ॥ * ॥ अस्य चिकित्सा । “जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः । सुखोष्णो मधुना लेपाद्वृश्चिकस्य विषं हरेत् ॥ गन्धमाघ्राय मृदितसूर्य्यावर्त्तदलस्य तु । वृश्चिकेन नरो विद्धः क्षणाद्भवति निर्व्विषः ॥” इति भावप्रकाशः ॥ * ॥ अथ वृश्चिकविषहरमन्त्रः । ओ~ सर स्फुः ह ओ~ हिलि मिलि चिलि चिलि स्फुः ब्रह्मणे स्फुः सर्व्वेभ्यो देवेभ्यः स्फुः । इति तन्त्रसारः ॥ * ॥ (यथा, ऋग्वेदे । १ । १९१ । १६ । “वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥” “वृश्चिकस्यैतद्विषं अरसमसारं बाधकं न भवति ।” इति तद्भाष्ये सायणः ॥ विषस्य विशेषविवरणन्तु अत्रैव १ -- १६ मन्त्रेषु द्रष्टव्यम् ॥ * ॥) मेषादि- द्वादशराश्यन्तर्गताष्टमराशिः । अस्याधिष्ठात्री देवता वृश्चिकः । विशाखाशेषपादानुराधा- ज्येष्ठासमुदायेनैतद्राशिर्भवति । स च शीर्षो- दयः । श्वेतवर्णः । जलराशिः । उत्तरदिक्पतिः । कफप्रकृतिः । जलचरः । बहुपुत्त्रः । बहुस्त्री- सङ्गः । चित्रतनुः । विप्रवर्णश्च । अस्य विशेष- संज्ञाः । सौम्यः । अङ्गना । युग्मम् । समः । स्थिरः । पुष्करः । सरीसृपजातिः । ग्राम्यः । तद्राशिजात एतादृशो भवति । मौनी । मन्द- गतिः । कृपालुः । कुबुद्धिः । नीचसङ्गश्च । इति बृहज्जातकादयः ॥ * ॥ तल्लग्नजातफलम् । “वृश्चिकोदयसंजातः शौर्य्यवानतिदुष्टधीः । भवेद्विज्ञानसम्पन्नो विग्रही सुभगः सुधीः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ ओषधीभेदः । इति भेदिनी ॥ हालिकः । हालः । इति संक्षिप्तसारोणादिवृत्तिः ॥ मदन- वृक्षः । कर्कटः । गोमयकीटः । इति भरतः ॥ अग्रहायणमासः । इति सारसुन्दरी ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृश्चिकः [vṛścikḥ], [व्रश्च्-किकन्]
A scorpion.
The sign Scorpio of the zodiac.
A crab.
A centipede.
A kind of beetle.
A hairy caterpillar.
The month when the sun is in Scorpio. -का, -की An ornament for the toes.
Comp. ईशः ruler of the (zodiacal sign) Scorpio.
the planet Mercury.
