सामग्री पर जाएँ

वृषचक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृषचक्रम्, क्ली, (वृषाकारं चक्रम् ।) कृषिकर्म्मोक्त- वृषाकारचक्रम् । यथा, -- “वृषचक्रं वृषाकारं सर्व्वावयवसंयुतम् । लिखित्वा विन्यसेद्भानि वृषनामर्क्षपूर्ब्बकम् ॥ मुखाक्षिकर्णशीर्षेषु शृङ्गे स्कन्धे द्विकं द्विकम् । त्रीणि पृष्ठे द्वयं पुच्छेऽष्टौ पादे तूदरे त्रिकम् ॥ हलप्रवाहबीजोप्तिप्रारम्भादिदिनर्क्षकम् । यदङ्गेषु स्थितं तस्माद्वक्ष्ये सर्व्वं शुभाशुभम् ॥ आस्ये हानिः सुखं नेत्रे कर्णे भिक्षाटनं तथा । शीर्षे धृतिस्तथा शृङ्गे सौख्यं स्कन्धे च मङ्गलम् ॥ पृष्टे कष्टं शुभं पुच्छे भ्रमः पादे सुखं हृदि । चन्द्रयोगादिदं प्रोक्तं वृषचक्रं फलं बुधैः ॥” इति ज्योतिस्तत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृषचक्र/ वृष--चक्र n. a partic. astrological diagram (shaped like a bull and having reference to agriculture) L.

"https://sa.wiktionary.org/w/index.php?title=वृषचक्र&oldid=281497" इत्यस्माद् प्रतिप्राप्तम्