सामग्री पर जाएँ

वृषणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृषणः, पुं, अण्डकोषः । इत्यमरः ॥ तस्य लक्षणं यथा, -- “स्थूललिङ्गो दरिद्रः स्याद्दुःख्येकवृषणी भवेत् । विषमे स्त्रीचञ्चलो वै नृपः स्याद्वृषणे समे । प्रलम्बवृषणोऽल्पायुर्निर्द्रव्यो मणिभिर्भवेत् ॥” अपि च । “जलान्त एकवृषणो वृषणाभ्यां चलः स्त्रियाम् । समाभ्यां क्षितिपः प्रोक्तः प्रलम्बेन शताब्दवान् ॥” इति गारुडे ६३ । ६५ अध्यायौ ॥

"https://sa.wiktionary.org/w/index.php?title=वृषणः&oldid=168137" इत्यस्माद् प्रतिप्राप्तम्