वृषभानु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृषभानुः, पुं, सूरभानपुत्त्रः । स च राधिकापिता । यथा, -- “सुचन्द्रो वृषभानुश्च ललाभ जन्म गोकुले । पद्मावत्याश्च जठरे सूरभानस्य रेतसा ॥ जातिस्मरो हरेरंशः शुक्लपक्षे यथा शशी । ववर्द्धानुदिनं तत्र व्रजगेहे व्रजाधिपः ॥ कलावती कान्यकुब्जे बभूवायोनिसम्भवा । जातिस्मरा महासाध्वी सुन्दरी कमला- कला ॥ कान्यकुब्जे नृपश्रेष्ठो भनन्दन उरुक्रमः । स तां संप्राप योगान्ते यज्ञकुण्डसमुत्थिताम् ॥ कृत्वा वक्षसि राजेन्द्र स्वकान्तायै ददौ मुदा । मालावती स्तनं दत्त्वा तां पुपोष प्रहर्षिता । ददर्श नन्दः पथि तां गच्छतीञ्च मुदान्वितः ॥ नन्द उवाच । शृणु राजेन्द्र वक्ष्यामि विशेषवचनं शुभम् । सम्बन्धं कुरु कन्याया विशिष्टेन च सांप्रतम् ॥ सूरभानसुतः श्रीमान् वृषभानुर्व्र जाधिपः । नारायणांशो गुणवान् सुन्दरश्च सुपण्डितः ॥ कन्या तेऽयोनिसंभूता यज्ञकुण्डसमुद्भवा । त्रैलोक्यमोहिनी शान्ता कमलांशा कलावती । स च योग्यस्तद्दुहितुस्तद्योग्या ते च कन्यका ॥ भनन्दन उवाच । सम्बन्धो हि विधिवशो न मे साध्यो व्रजाधिप । प्रजापतिर्योगकर्त्ता जन्मदाताहमेव च ॥ वृषभानुप्रिया धात्रा लिखिता चेत् सुता मम । पुरा भूतैव को वाहं केनान्येन निवार्य्यते ॥ नृपानुज्ञामुपादाय व्रजश्रेष्ठो व्रजं गतः । गत्वा स कथयामास सूरभानस्य संसदि ॥ सूरभानश्च यत्नेन नन्देन च समादरम् । सम्बन्धं योजयामास गर्गद्बारा च सत्वरम् ॥ वृषभानुर्मुदा युक्तः प्राप्य ताञ्च कलावतीम् । रेमे सुनिर्ज्जने रम्ये बुबुधे न दिवानिशम् ॥ तयोः कन्या च कालेन राधिका सा बभूव ह । दैवात् श्रीदामशापेन श्रीकृष्णस्याज्ञया पुरा । अयोनिसम्भवा सा च कृष्णप्राणाधिका सती ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृषभानु(न)¦ पु॰ राधिकायाः पितरि। ब्रह्मवै॰ ज॰
१७ अ॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृषभानु/ वृष--भानु m. (also written -भाणुor -भान)N. of a वैश्य(the son of सूर-भानand father of राधा)
वृषभानु/ वृष--भानु m. (See. वार्षभानवी) Cat.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
VṚṢABHĀNU : A King. When Vṛṣabhānu was cleaning the ground for performing sacrifice, once, he got a girl named Rādhā. He brought her up as his own daughter (Padma: Brahma: 7). In Brahmavaivarta Purāṇa, Vṛṣabhānu is mentioned as the father of Rādhā.
_______________________________
*3rd word in left half of page 882 (+offset) in original book.
