वृषोत्सर्ग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृषोत्सर्गः, पुं, (वृषस्योत्सर्गः ।) अशौचान्त- द्वितीयदिनादिकर्त्तव्यत्रिशूलचक्राङ्कितवत्सतरी- चतुष्टययुक्तवृषत्यागः । वृषाभावे तत्प्रतिनिधि- र्यथा, -- “एकादशेऽह्नि सम्प्राप्ते वृषाभावो भवेद्यदि । दर्भैः पिष्टैस्तु संपाद्य तं वृषं मोचयेद्बुधः ॥ वृषोत्सर्ज्जनवेलायां वृषाभावः कथञ्चन । मृत्तिकाभिस्तु दर्भैर्व्वा वृषं कृत्वा विमोचयेत् ॥” इति गारुडे प्रेतकल्पे ६ अध्यायः ॥ तस्य विधिर्यथा । कालविवेकेऽप्यग्निपुराणम् । “एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । प्रेतलोकं परित्यज्य स्वर्गलोकं स गच्छति ॥ आद्यश्राद्धे त्रिपक्षे वा षष्ठे मासि च वत्सरे । वृषोत्सर्गश्च कर्त्तव्यो यावन्न स्यात् सपिण्डता । सपिण्डीकरणादूर्द्ध्वं कालोऽन्यः शास्त्रचोदितः ॥” यस्य प्रेतस्येति सामान्यतः श्रुतेः पितृभिन्न- स्यापि वृषोत्सर्गः प्रतीयते ॥ * ॥ अथ वृषोत्- सर्गं व्याख्यास्यामः । कार्त्तिक्यां पौर्णमास्यां रेवत्यामाश्वयुज्यां दशाहे गते संवत्सरेऽतीते वेति । अत्र मृततिथिमादाय संवत्सरगणना दशाहवदित्यविरोधः । एकादशाह इति आद्य- श्राद्ध इति चाशौचान्ताद्द्वितीयदिनपरम् । “अशौचान्ताद्द्वितीयेऽह्नि शय्यां दद्याद्विलक्षणाम् । काञ्चनं पुरुषं तद्वत् फलवस्त्रसमन्वितम् ॥ संपूज्य द्बिजदाम्पत्यं नानाभरणभूषणैः । वृषोत्सर्गश्च कर्त्तव्यो देया च कपिला शुभा ॥” इति मत्स्यपुराणेनैकवाक्यत्वात् ॥ प्रेतवृषोत्सर्गे वृद्धिश्राद्धं न कर्त्तव्यम् । अलंकृत्य यथाशोभमुत्सर्गं कारयेन्मुने ॥ विवाहमेकवत्सीयनीलेन भवते सदा । वृषेण अश्वमेधस्य यागस्य फलदायकम् ॥ जायेरन् बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् । यजेद्वा अश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ रोहितो यस्तु वर्णेन शङ्खवर्णखुरो वृषः । लाङ्गूलशिरसश्चैव स वै नीलवृषः स्मृतः ॥ अङ्कित्वोत्सृज्यते पूर्व्वं गाञ्चालंकृत्य सर्व्वतः । तप्तेन वामतश्चक्रं याम्ये शूलं समालिखेत् ॥ धातुना हेमतारेण आयसेनाथवाङ्कयेत् । एवं कृत्वा अवाप्नोति फलं वाजिमखोदितम् ॥ यमुद्दिश्योत्सृजेद्वत्सं स लभेताविचार- णात् । यथा शिवोमजा अर्च्चा पूजिता सर्व्वकामदा । एवं देवत्रयं यष्ट्वा अनन्तं लभते फलम् ॥ मङ्गलाविहितं यच्च यच्च गोदानजं फलम् । सहस्रक्रतवस्तेन वृषोत्सर्गादवाप्नुयात् ॥” इति देवीपुराणे पूजाविधि नामाध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृषोत्सर्ग¦ पु॰ उत् + सृज--घञ्
६ त॰। मृताद्युद्देशेन तत्-पुत्रादिभिः क्रियमाणे विधानेन वृषस्य त्यागेतद्विधिर्यथा शु॰ त॰
“कालविवेके अग्निपु॰
“एकादशाहेप्रेतस्य यस्य चोत्सृज्यते वृषः। प्रेतलोकं परित्यज्य-स्वर्कलोकं स गच्छति। आद्यश्राद्धे त्रिपक्षे वा षष्ठे मासिच वत्सरे। वृषोत्सर्गश्च कर्त्तव्यो यावन्न स्यात् सपिण्डता। सपिण्डीकरणादूर्द्ध्वं कालोऽन्यः शास्त्रचोदितः”। यस्य प्रेतस्येति सामान्यश्रुतेः पितृभिन्नस्यापि वृषोत्सर्गःप्रतीयते। त्रिपक्षोऽत्र चान्द्रः श्राद्धे तथादर्शनात्श्राद्धप्रदीपे जातु॰
“ऊर्द्ध्वं त्रिपक्षात् यत् श्राद्धं मृता-हन्येव तद्भवेत्”। अत्र पूर्वमृततिथिमादाय त्रिपक्षगणनामासिकानां मृततिथौ विधानात् त्रिपक्षश्राद्धमपि मृताहेकार्य्यम्। अत्र वत्सर इत्युपादानात् विष्णुधर्म्मोत्तरीयेमृताह इति पदं पूर्णसंवत्सरमृततिथिपरम्। तद्यथावृषोत्सर्गमधिकृत्य विष्णुः
“विषुवद्वितये चैव मृताहे{??}न्धवस्य च। मृताही यस्य यस्मिन वा तस्मिन्नहनि[Page4956-b+ 38] कारयेत्” यस्य बान्धवस्य पित्रादेर्यस्मिन्नहनि मृताहःतत्तिथौ कर्त्तव्यमित्यर्थः। (तत्तिथिश्च प्रथमादिकलाह्रासवृद्ध्यन्यतरक्रियया सजातीयतिथिस्तेन त्रिपक्षश्राद्धेपक्षान्तरत्वेऽपि न क्षतिः)। छन्दोगप॰
“वृषोत्सर्गविधिंव्याख्यास्यामः
“कार्तिक्यां पौर्णमास्यां रेवत्याश्वयुज्यांदशाहे गते संवत्सरेऽतीते वा”। अत्र मृततिथिमादायवत्सरगणना दशाहवदित्यविरोधः। एकादशाह इतिआद्यश्राद्ध इति च अशौचान्तद्वितीयदिनपरम्। अशो-चान्तात् द्वितीयेऽह्नीत्युपक्रमे
“वृषोत्सर्गश्च कर्त्तव्यो देयाच कपिला शुभा” मत्स्यपु॰ एकवाक्यत्वात्। प्रेतवृषोत्सर्गेवृद्धिश्राद्धं न कार्य्यम्
“नार्वाक् संवत्सरात् वृद्धिर्वृषोत्सर्गेविधीयते। सपिण्डीकरणादूर्द्ध्वं वृद्धिश्राद्धं विधीयते” उशनोवचनात्। वृषलक्षणमाह कर्मप्र॰ कात्या॰
“अव्यङ्गोजीववत्सायाः पयस्विन्याः सुतो बली। एकवर्णो द्वि-वर्णो वा यो वा स्यादष्टकासुतः। यूथादुच्चतरो यस्तु समोवा नीच एव वा। सप्तावरान् सप्त परानुत्सृष्टस्तारयेद्-वृषः”। अष्टकासुतः अष्टकातिथिषु जातः
“वृष एवस मोक्तव्यो न सन्धार्य्यो गृहे वसन्” मत्स्यपु॰। वत्सतरो-र्विशेषति कात्या॰
“अग्रतो लोहिता पत्नी पार्श्वाभ्यांनीलपाण्डरे। पृष्ठतश्च भवेत् कृष्णा वृषभस्य च मोक्षणे। चतस्रो वत्सिका भद्रा द्वे वा सम्भवतोऽपि वा। वत्संसर्वाङ्गसंपूर्णं कन्या सा वत्सिका भवेत्” देवीपु॰ उ॰। अत्रसम्भवत इत्युक्त्या एकयापि वत्सतर्य्या वृषोत्सर्गः सिध्यति।
“अङ्कित्वोत्सृज्यते पूर्वं गाश्चालङ्कृत्य सर्वतः। तप्तेनवामतश्चक्रं याम्ये शूलं समालिखेत्। धातुना हेमतारेणआयसेनाथवाऽङ्कयेत्” देवीपु॰। प्रेतोद्देश्यकवृषोत्सर्गस्तुमलमासादावपि कर्त्तव्यः
“अशौचान्तोऽपि कर्त्तव्य वृषो-त्सर्गादिकं बुधैः। मलिम्लुचादिदोषस्तु न ग्राह्यस्तत्र क-श्चन” शु॰ त॰ धृतवाक्यात्। कालमाधवीये कालादर्शे चमलमासे कर्त्तव्यतानिषेधमुपक्रम्य प्रवृत्तं यथा
“आश्रमस्वीकृतिः काम्यवृषोत्सर्गश्च निष्क्रयः”। अत्र काम्येतिविशेषणात् नित्यस्य न निषेधः
“अशौचान्तात् द्वितीये-ऽह्नि यस्य नोत्सृज्यते वृषः। न तस्य निष्कृतिर्दृष्टा दत्तैःश्राद्धशतरपि” इत्युक्तेस्तस्य नित्यत्वम् चन्दनधेनुशब्देदृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृषोत्सर्ग¦ m. (-र्गः) Setting a bull at liberty on occasion of a sacrifice or obsequial oblation. E. वृष, and उत्सर्ग letting loose.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृषोत्सर्ग/ वृषो m. letting loose a bull (or accord. to some , a bull and four heifers , as a work of merit esp. on the occasion of a श्राद्धin honour of deceased ancestors) Gr2S. Pan5cat. RTL. 319
वृषोत्सर्ग/ वृषो m. giving up virtuous acts Va1s.
वृषोत्सर्ग/ वृषो m. N. of the 18th परिशिष्टof the अथर्व- वेद
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--rules for the dedication of a bull; the characteristics and adornments of the bull intended for gift and of the cow, its mother; intended for all castes; different coloured bulls and their significance; gift of नील bull best for पितृस्; फलकम्:F1: M. १८. १४; २०७. 1-४१; वा. ८३. १२, ४५-6.फलकम्:/F at गया. फलकम्:F2: Ib. ११२. ५८.फलकम्:/F
