वृष्टिवैकृत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृष्टिवैकृत¦ न॰
६ त॰। उपद्रवसूचके वृष्टिविकारे यथोक्तंवृ॰ स॰
४६ अ॰
“दुर्भिक्षमनावृष्ट्यामतिवृष्ट्यां क्षुद्भयं सपरचक्रम्। रोगोह्यनृतुभवायां नृपवधोऽनभ्रजातायाम्। शीतोष्णविपर्यामे नो सम्यगृतुषु च सम्प्रवृत्तेषु। षणमासाद्राष्ट्रभयंरिगभयं दैवजनित च। अन्यतौ सप्ताहं प्रबन्धवर्षेप्रधाननृपमरणम्। रक्ते शस्त्रोद्योगो मसिस्थिवसा-दिभिर्मरकः। धान्यहिरण्यत्वक्फलकुसुमाद्यैर्वर्षितैर्मयंविद्यात्। अङ्गारपांशुवर्षे विनाशमायाति तन्नगरम्। उपला विना जलधरैर्विकृता वा प्राणिनो यदा वृष्टाः। छिद्रं वाप्यतिवृष्टौ सस्यानामीतिसञ्जननम्। क्षीरघृत-[Page4957-b+ 38] क्षौद्राणां दध्नो रुधिरोष्णयोर्वा वर्षे। देशविनाशोज्ञेयोऽसृग्वर्षे चापि नृपयुद्धम्। यद्यमलेऽर्के छाया नदृश्यते दृश्यते प्रतीपा वा। देशस्य तदा सुमहद्भयमा-यातं विनिर्देश्यम्। व्यभ्रे नभसीन्द्रधनुर्दिवा यदादृश्यतेऽथ वा रात्रौ। प्राच्यामपरस्यां वा तदा भवत्क्षुद्भयं सुमहत्। सूर्य्येन्दुपर्जन्यसमीरणानां योगःस्मृतो वृष्टिविकारकाले। धान्यान्नगोकाञ्चनदक्षिणाश्चदेयास्ततः शान्तिमुपैति पापम्”।
