सामग्री पर जाएँ

वृष्णिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृष्णिः, पुं, (वृष + “सृवृषिभ्यां कित् ।” उणा० ४ ४९ । इति निः । स च कित् ।) मेषः । इत्यमरः ॥ यादवः । इति शब्दरत्नावली ॥ (यथा, महा- भारते । ५ । ७२ । ४ । “यथा हि सर्व्वस्वापत्सु पासि वृष्णीनरिन्दम । तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् ॥”) कृष्णः । इति त्रिकाण्डशेषः ॥

वृष्णिः, त्रि, पाषण्डः । चण्डः । इति शब्दरत्ना- वली ॥

"https://sa.wiktionary.org/w/index.php?title=वृष्णिः&oldid=168215" इत्यस्माद् प्रतिप्राप्तम्