सामग्री पर जाएँ

वृह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृह, वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) वर्हति । वृहिर्ध्वनर्द्ध्योरित्यने- नैवेष्टसिद्धेऽस्य पाठो वृद्धौ इरनुबन्धवर्ज्जनार्थः । किन्तु अनेनैवेष्टसिद्धे तत्र ऋद्धि ग्रहणं परत्रा- नुवृत्त्यर्थमेव । अयं धातुः कैश्चिन्य मन्यते । इति दुर्गादासः ॥

वृह, इ ध्वने । ऋद्धौ । सप्तमस्वरी ॥ (भ्वा०-पर०- अक०-सेट् ।) इ, वृंह्यते । ववृंहिरे गजपतयः । इति माघः ॥ आत्मनेपदं प्रमादादिति वल्लभः ॥ ध्वनश्चेति हस्तिकर्त्तृकः । वृंहितं करिगर्जित- मित्यमरसिंहात् । वृंहितं करिगर्जायां शब्द- मात्रेऽपि कथ्यते । इति शब्दमहार्णवात् । कदाचिदन्यकर्त्तृकोऽपि । तेन श्रीहर्षचरिते सिंहवृंहितमिति बाणभट्टप्रयोगः । इति दुर्गा- दासः ॥

वृह, इ कि त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-पर०-अक०-सेट् ।) सप्तमस्वरी । इ, वृंह्यते । कि, वृंहयति वृंहति । इति दुर्गादासः ॥

वृह, इ ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) इ, वृंह्यते । ङ, वृंहते । इति दुर्गादासः ॥

वृह, इर् ध्वने । ऋद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।) इर्, अवृहत् । अवर्हीत् । ध्वनः शब्दः । ऋद्धिर्व्वृद्धिः । इति दुर्गादासः ॥

वृह, श ऊ उद्यमे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-अक०-वेट् ।) श, वृहति । ऊ, अवर्हीत् । अवृक्षत् । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृह¦ दोप्तौ वा चु॰ उभ॰ सक॰ पक्षे भ्वा॰ पर॰ इदित्। वृंह-यति ते अववृंहत् त। वृंहति अवृंहीत्।

वृह¦ वृद्धौ शब्दे च अक॰ भ्वा॰ पर॰ सक॰ सेट्। वर्हतिइरित् अवृहत् अवर्हीत्।

वृह¦ ध्वनौ हस्तिध्वनौ वृद्धौ च भ्वा॰ पर॰ पर॰ अक॰ सेट्। इदित्। वृंहति अवृंहीत्

वृह¦ वृद्धौ भ्वा॰ पर॰ सक॰ सेट्। वर्हति अवर्हीत्।

वृह¦ उद्यमे तु॰ पर॰ अक॰ वेट्। वृहति। अवर्हीत्--अवृक्षत्।

वृह¦ वृद्धौ भ्वा॰ आत्म॰ सक॰ सेट् इदित्। वृंहते अवृंहिष्ट।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृह See. अ-वृह.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a शुक्रदेव. वा. ३१. 9.

"https://sa.wiktionary.org/w/index.php?title=वृह&oldid=437885" इत्यस्माद् प्रतिप्राप्तम्