वेगः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वेगः, पुं, (विज + घञ् ।) प्रवाहः । तत्पर्य्यायः । ओघः २ वेणी ३ धारा ४ । इति हेमचन्द्रः ॥ जवः । तत्पर्य्याथः । रंहः २ तरः ३ रयः ४ स्यदः ५ । इत्यमरः ॥ (यथा, मनौ । ५ । १०८ । “मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ॥”) महाकालफलम् । इति मेदिनी ॥ रेतः । इति हेमचन्द्रः ॥ मूत्रविष्ठादिनिर्गमप्रवृत्तिः । इति भरतः ॥ संस्कारविशेषः । यथा, -- “स्पर्शादयोऽष्टौ वेगाख्यसंस्कारो मरुतो गुणाः । अष्टौ स्पर्शादयो रूपं द्रवो वेगश्च तेजसि ॥ स्पर्शादयोऽष्टौ वेगश्च द्रवत्वञ्च गुरुत्वकम् । रूपं रसस्तथा स्नेहो वारिण्येते चतुर्द्दश ॥” इति भाषापरिच्छेदः ॥ * ॥ (यथा, भागवते । ७ । ८ । २५ । “ततोऽभिपद्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया ॥”) वेगधारणनिषेधो यथा, -- “वेगरोधो न कर्त्तव्यश्चान्यत्र क्रोधवेगतः ॥” इति आह्निकतत्त्वधृतविष्णुधर्म्मोत्तरवचनम् ॥ अपि च । “स्वभावतः प्रवृत्तानां मलादीनां जिजीविषुः । न वेगान्वारयेद्धीरः कामादीनाञ्च धारयेत् ॥” इति राजवल्लभः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वेगः [vēgḥ], [विज्-घञ्]
Impulse, impetus.
Speed, velocity, rapidity.
Agitation.
Impetuosity, violence, force.
A stream, current; as in अम्बुवेगः; रुरोध नर्मदा- वेगं बाहुभिर्बहुभिर्वृतः Rām.7.32.4,6.
Energy, activity, determination.
Power, strength; ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया Mb.1.2.288; मदनज्वरस्य वेगात् K.
Circulation, working, effect (as of poison); चिराद्वेगारम्भी प्रसृत इव तीव्रो विषरसः U.2.26; V.5.18.
Haste, rashness, sudden impulse; कृत्यं न कुरुते वेगान्न स संतापमाप्नुयात् Pt.1.19.
The fight of an arrow; घननीहार इवाविषक्तवेगः Ki.13.24.
Love, passion.
The external manifestation of an internal emotion.
Delight, pleasure.
Evacuation of the feces; स्वभावतः प्रवृत्तानां मलादीनां जिजीविषुः । न वेगं धारयेद्धीरः कामादीनां च धारयेत् ॥ Rājanighaṇṭu.
Semen virile.
Pleasure, delight.
Attack, paroxysm (of a disease); Suśi.
Comp. अनिलः blast caused by speed; यष्ट्यग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात् V.1.5.
a strong or violent wind.
आघातः sudden arresting of velocity, check of speed.
obstruction of excretion, constipation.-दण्डः an elephant. -नाशनः the phlegmatic humour.-रोधः = ˚आघातः q. v. -वाहिन् a. swift.
विधारणम् checking of speed.
constipation. -सरः a mule.-हरिणः a kind of antelope; L. D. B.
