वेणीसंहारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वेणीसंहारः, पुं, (वेण्याः द्रौपदीवेणिकायाः संहारो भीमेन मारितदुर्य्योधनशोणितेन मोचनं यत्र ।) भट्टनारायणकृतसप्ताङ्कयुक्तनाटक- विशेषः । तत्र दुर्य्योधनकर्त्तृकद्रौपदीकेशाकर्षणा- वधि तद्वधानन्तरं तस्या वेणीबन्धनपर्य्यन्तविव- रणमस्ति । तस्यायमाद्यश्लोकः । “निषिद्धैरप्येभिर्लुलितमकरन्दो मधुकरैः करैरिन्दोरन्तश्छुरित इव सम्भिन्नमुकुलः । विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम् ॥”
