सामग्री पर जाएँ

वेणुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वेणुः, पुं, (अज + “अजिवृरीभ्यो निच्च ।” उणा० ३ । ३८ । इति णुः । सच नित् । अजेर्वीभावो गुणश्च ।) वंशः । इत्यमरः ॥ (यथा, रामायणे । ४ । ४३ । १७ । “तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा । उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥”) वंशी । इति शब्दरत्नावली ॥ वेणोरुत्पत्ति- र्यथा, -- “वेणुर्यः शृणु तं विप्र तथापि विदितं तथा । द्विज आसीच्छान्तमनाः कृतसान्तपनादिभिः ॥ नाम्ना देवव्रतो दान्तः कर्म्मकाण्डविशारदः । अवैष्णवजनव्रातमध्यवर्त्ती क्रियापरः ॥ एकदापि न शुश्राव यज्ञेशोऽस्तीति भूपते । तस्य गेहमथाभ्यागाद्वेदान्तकृतनिश्चयः ॥ मद्भक्तः कोऽपि पूजां स तुलसीदलवारिणा । कृतवांस्तु गृहे किञ्चित् फलमूलं न्यवेदयत् ॥ स्नानवारि फलं किञ्चित् तस्मै प्रीत्या ददौ सुधीः । अश्रद्धयान्वितं कृत्वा सोऽप्यगृह्णात् द्विजन्मनः ॥ तेन पापेन संजातं वेणुत्वमतिदारुणम् । तेन पुण्येन तस्यार्थो मदीयप्रियतां गतः ॥ अधुना सोऽपि राजेव केतुमाले विराजते । युगान्ते तु विष्णुपरो भूत्वा ब्रह्मत्वमाप्स्यति ॥” इति पाद्मे पातालखण्डे ५ अध्यायः ॥ नृपविशेषः । इति मेदिनी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वेणुः [vēṇuḥ], [वेण्-उण् Uṇ.3.38]

A bamboo; मलये$पि स्थितो वेणुर्वेणुरेव न चन्दनम् Subhāṣ; R.12.41.

A reed, cane; प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा Ms.8.299.

A flute, pipe; वेणुं क्वणन्तीं क्रीडन्तीम् Bhāg.1.3.18; नामसमेतं कृतसंकेतं वादयते मृदु वेणुम् Gīt.5.

A banner;. त्रिवेणुं पञ्चबन्धुरम् (रथम्) Bhāg.4.26.1; cf. त्रिवेणु. -Comp. -कर्करः the Karavīra plant. -जः bamboo-seed. -दलम् a split bamboo; Ms.8.299; cf. वेणुवैदल made of split bamboo; Ms.8.327. -ध्मः a flute-player, piper; मार्द- ङ्गिकाश्च वेणुध्माः Śiva B.31.21. -निस्रुतिः the sugar-cane.-बीजम् bamboo-seed. -यवः bamboo-seed. -यष्टिः f. a bamboo-stick. -वादः, -वादकः a piper, flute-player.

"https://sa.wiktionary.org/w/index.php?title=वेणुः&oldid=282931" इत्यस्माद् प्रतिप्राप्तम्