वेणुयवः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वेणुयवः, पुं, (वेणोर्यवः ।) वंशफलम् । वा~शेर चाउल इति भाषा ॥ (यथा, विष्णुपुराणे । १६ । २५ । “तथा वेणुयवाः प्रोक्तास्तद्वन् मर्कटका मुने ॥”) तत्पर्य्यायः । वेणुजः २ वेणुबीजम् ३ वंशजः ४ वंशतण्डुलः ५ वंशधान्यम् ६ वंशाह्वः ७ । अस्य गुणाः । रूक्षत्वम् । कषायत्वम् । कटुपाकित्वम् । बद्धमूत्रत्वम् । कफघ्नत्वम् । वातपित्तकरत्वम् । सारकत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः । वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः ॥” इति भावप्रकाशः ॥
