सामग्री पर जाएँ

वेतनानपाकर्म्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वेतनानपाकर्म्मन्¦ न॰

६ त॰। व्यवहारभेदेयत्स्वरूपादिकं वीरमि॰ उक्तं यथानारदः
“भृतानां वेतनस्योक्तो दानादानविधिक्रमः। वेत-नस्यानपाकर्म तद्विवादपदं स्मृतम्”। येतनं कर्ममूल्यंतस्यानपाकर्म भृत्याय समर्पणं समर्पितस्य वा परावर्त्त-नन्। तत्र समर्पणे विशेषमाह स एव
“भृत्याय वेतनंदद्यात् कर्मस्त्वामी यथाक्रमम्। आदौ मध्येऽवसानेतु कमणो यद्विनिश्चितम्”। तुभ्यमेतावदहं दास्यामीतियद्वेतनं परिमाणतो निश्चितं तत्त्रिधा विभज्य कर्मणआदिमध्यान्तेषु त्रिषु कालेष्वन्यतमकाले वा दद्यादित्यर्थः। [Page4959-b+ 38] एतच्चैतावद्वेतनं दास्यामीति भाषायाः सत्त्वे। असत्त्वेत्वाह स एव
“भृतावनिश्चितायां तु दशभागमवाप्नुयुः। लाभं गोवीर्य्यशस्यानां वणिग्गोपकृषीबलाः” इति। दशभागं दशमम्भागङ्गोवीर्य्यं पाल्यमानगवादिभवम्पयो-दध्यादि। यदि कर्मस्वामी भृत्याय दशमम्भागन्न प्रय-च्छति तदाऽसौ राज्ञा दाप्य इत्याह याज्ञवल्क्यः
“दा-प्यस्तु दशमम्भागं वाणिज्यपशुशस्यतः। अनिश्चित्यभृतिं यस्तु कारयेत् स महीक्षिता” इति। यस्तु स्यामीवेतनपरिच्छेदमकृत्वैव भृत्यं कर्म कारयति स तस्माद्वाणिज्यपशुशस्यलक्षणात् कर्मणः सकाशाद् यल्लब्धं तस्यदशमं भागं भृत्याय महीक्षिता राज्ञा दापनीय इत्यर्थः। यत् तु
“त्रिभागं पञ्चभागं वा गृह्णीयात् सीरवाहकः” इति वृहस्पतिवचनं तद्बह्वायाससाध्याकृष्टक्षेत्र-विषयम्। व्यवस्थितविकल्पश्चायम्। कथमत्र व्यव-स्थेत्याकाङ्क्षायामाह स एव
“भक्ताच्छादभृतः सीरी भागंगृह्णीत पञ्चमम्। जातशस्यात्त्रिभागं तु प्रगृह्णीयाद-थाऽभृतः” इति। अशनाच्छादनाभ्यां भृतः कृषीयलोलाङ्गलविकृष्टक्षेत्रजातशस्यात् पञ्चमम्भागं गृह्णीयात्। ताभ्यामभृतस्तु तृतीयं भागमित्यर्थः। अथ वा यत्रै-तावद्दास्यामीति नास्ति परिभाषा तत्र वृद्धमनूक्तं द्रष्ट-व्यम्
“समुद्रयानकुशला देशकालार्थदर्शिनः। निय-च्छेयुर्भृतिं यान्तु सा स्यात् प्रागकृता तदा” इति। एता-वद्दास्यामीति परिभाषितेऽपि क्वचित्ततो न्यूनमपि स्वा-मिमात्रपरिकल्पितं देयं कचित्ततोऽधिकमपि देयमि-त्थाह याज्ञवल्क्यः
“देशं कालञ्च योऽतीयाल्लाभंकुर्य्याच्च योऽन्यथा। तत्र स्यात् स्वामिनश्छन्दोऽधिकंदेयं कृतेऽधिके” इति। यो भृत्यः स्वाम्यनुज्ञां विनास्वातन्त्र्येण वाणिज्यादिकर्मणः फलसाधकत्वापादकंदेशं कालं चातिक्रामति लाभं वा बहुतरं व्यस्तेन स्वल्पंकरोति तस्मै पूर्वपरिभाषितभृतिमध्ये स्वामी स्वेच्छा-नुसारेण किञ्चिद् दद्यात्। यस्तु स्वातन्त्र्येण बहुलाभंकरोति तस्मै परिभाषितमूल्यादधिकं किञ्चिद्देयं स्वा-मिना पारितोषिकमित्यर्थः। अनेकभृत्यसाध्यकर्मणिवेतनार्पणप्रकारमाह स एव
“यो यावत् कुरुते कर्म{??}वत् तस्य तु वेतनम्। उभयोरप्यसाध्यं चेत् साध्येकुर्य्याद् यथाश्रुतम्” इति। उभयोरपीत्यपिना बहूनांग्रहणम् अस्मिन् गृहादौ कृते भवतामेतावद्वास्यामीतिपरिमाषिते द्विबहुभिरारब्धं कर्म यदि व्याध्यादिव-[Page4960-a+ 38] शान्न समापितं तदा तेषु यो यावत् कर्म करोति तस्मैतत्कर्मानुसारेण मध्यस्थपरिकल्पितं वेतनं देयम्। नतु साम्येन दानन्न च परिसमाप्त्यभावाददानम्। यदितैः समापितं तदा यथा परिभाशितं देयन्न तु प्रत्येकंकृत्स्नं दातव्यं नापि कर्मानुसारेण परिकल्प्य दातव्य-मित्यर्थः। यस्तु वेतनं गृहीत्वा समर्थोऽपि न कर्मकरोति तं प्रत्याह वृहस्पतिः
“गृहीतवेतनः कर्म नकरोति यदा भृतः। समर्थश्चेद्दमन्दाप्यो द्विगुणं तच्चवेतनम्” इति। दमं शक्त्यनुसारेण राज्ञा दाप्यः। गृ-हीतञ्च वेतनं द्वैगुण्येन स्वामिने दद्यादित्यर्थः। ना-रदोऽपि
“भृतिं गृहीत्वाऽकुर्वाणो द्विगुणां भृतिमाव-हेद्” इति। याज्ञवल्क्योऽपि
“गृहीतवेतनः कर्मत्यजन्द्विगुणमावहेद्” इति। अस्मिन्नेव विषये यावता वेत-नेन भृत्यत्वमङ्गीकृतं तावदेव स्वामिने देयन्न तु राज्ञेदण्डमित्यर्थः। यद्वाङ्गीकृतां भृतिं दत्त्वा वलात्कारयि-तव्य इत्याह नारदः
“कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वाभृतिं वलाद्” इति। प्रतिश्रुत्येति प्रारम्भस्याप्युपल-क्षणार्थम् अतएव कात्यायनः
“कर्मारम्भं तु यः कृत्वासिद्धिन्नैव तु कारयेत्। बलात्कारयितव्योऽसावकुर्वन्दण्डमर्हति” इति। कियद् द्रव्यं दण्ड्य इत्यपेक्षायामा-हतुर्वृद्ध मनुवृहस्पती
“प्रतिश्रुत्थ न कुर्य्याद् यः स कार्यःस्याद् बलादपि। स चेन्न कुर्य्यात् तत्कर्म प्राप्तुयाद्द्विशतं दमम्” इति। द्विशतं कार्षापणद्विशतमित्यर्थः। यत् तु मनुवचनम्
“भृतोऽनार्त्तो न कुर्य्याद् यो दर्पात्कर्म यथोदितम्। स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्यवेतनम्” इति। तदल्पदण्डत्वाद्भागासिद्धिविषयमितिस्मृतिचन्द्रिकायाम्। अर्द्ध्वन्यूनकर्मकरणविषयमितिमदनरत्ने। किञ्चिन्न्यूनकर्मकरणे त्वाह स एव
“य-थोक्तमार्त्तः सुस्थो वा यस्तत्कर्म न कारयेत्। न तस्यवेतनं देयमल्पोनस्यापि कर्मणः” इति। सुस्थो वा कर्मकारयेदिति वदता सुस्थेऽपि स्वयं कर्तृत्वनियमोनास्तीति दर्शयति। आर्त्तो यदि आर्त्युपशमानन्तरंस्वाङ्गीकृतं कर्म करोति तदार्त्ते दीर्घकालतया काल-क्षेपेऽपि भृत्यदोषाभावाद्वेतनमसौ निर्विवादं सभतइत्याह स एव
“आर्त्तस्तु कुर्य्यात् सुस्थः सन् यथाभा-षितमादितः। सुदीर्घस्यापि कालस्य तल्लमेतैव वेतनम्” आदितः आदौ यथामाषितं यथाप्रतिज्ञातं तथा कु-र्य्यादित्यर्थः। सुदीर्षस्यापि कालस्य अत्ययेऽप्रीति शेषः। [Page4960-b+ 38] यस्तु कालविशेषावधिकं कर्म प्रतिज्ञाय तत्काला-पूर्त्तावेव कर्म त्यजति तं प्रत्याह नारदः
“कालेऽपूर्णेत्यजन् कर्म भृतर्नाशमवाप्नुयाद्”। अत्र दण्डमप्याहविष्णुः भृतकश्चापूर्णे काले त्यजन् सकलमेव मूल्यञ्ज-ह्यात् राज्ञे च पणशतं दद्यादिति”। मूल्यं वेतनम्। स्वामिदोषात्त्यागे तु यावति काले कर्म कृतं तत्काला-नुसारेण कल्पितं वेतनं लभत इत्याह नारदः
“स्वा-मिदोषादपक्रामन् यावत् कृतमवाप्नुयाद्” इति। स्वामि-दोषो विनापराधं निष्ठुरभाषणादिः। अत्र दण्डम-प्याह विष्णुः
“स्वामो चद्भृतकमपूर्णे काले जह्यात् तस्यसर्वमेव मूल्यं दद्यात् पण्यञ्च राजन्यत्र भृतादाषादिति”। स्वामिद्रव्यस्य भृत्यदोषेण नाशे यत् कर्त्त{??}ं तदाह सएव।
“तद्दाषेण यद्विनश्येत्तत् स्वामिने देयमन्यत्र दै-वोपथातादिति”। दैवोपघातोराजकृतस्याप्युपलक्षणम। स्वामिने देयं मूल्यद्वारेणेति शेषः। अत्र दोषविशेषः। द्विशेषमाह वृहन्मनुः
“प्रामादान्नाशितं दाप्यः समंद्वि र्द्रोहनाशितम्” इति। प्रमादान्नाशितमनबधानना-शितं सममेव दद्यात्। द्रोहनाशितं तीव्रप्रयत्नादिनाद्रोहेण नाशितं द्विर्दाप्यो द्विगुणं दाप्य इत्यथः। भृत्य-दोषाभावे यदन्यत एव नष्टं तन्न देयमित्याह स एव
“न तु दाप्यो हतञ्चौरैर्दग्धमूढं जलेन वेति”। ऊढंनीतम्। यस्तु वाहको वाह्यं द्रव्यं प्रज्ञाहीनात्वादिनास्वदोषेण नाशयति तं प्रत्याह नारदः
“भाण्डं व्यस-नमागच्छेद्यदि वाहकदोषतः। दाप्यो यत्तत्र नश्येत्तुदैवराजकृतादृते” इति। भाण्डं वहनीयं द्रव्यं सक्तु-कादि व्यसनं नाशम्। अत्र भाण्डवाहकयोर्ग्रहर्ण-बलीवर्दकृषीबलयोरुपलक्षणमिति मदनरत्ने। अत्रा{??}
“प्रमादान्नाशितं दाप्यः समं द्विर्द्रोहनाशितमिति” वृद्ध-मनूक्तोविशेषोऽवगन्तव्यः। यस्तु वाहकः स्वदोषणप्रस्थानविघ्नं करोति स द्विगुणां भृति दाप्य इत्याहकात्यायनः
“विघ्न यो वाहको दाप्यः प्रस्थाने द्विगुणांभृतिम्” इति। विघ्नं करोतीति शेषः। वाहकग्रहणंप्रदर्शनार्थं न तु विवाक्षतन्तेनायुधीयादेर्युद्धविघ्नकारिणी-ऽप्येतदिति मन्तव्यम्। अतएव नारदः
“द्विगुणां तुभृतिं दाप्यः प्रस्थाने विघ्नमाचरन्” इति सामान्ये-नोक्तवान्। याज्ञवल्क्योऽपि
“प्रस्थानविघ्नकृच्चैव पदाप्योद्विगुणां भृतिम्” इति। एतच्च भृत्यान्तरसम्पादनकाला-सम्भवविषयम्। अङ्गीकृतकर्मकरणस्यापि यदा सहा-[Page4961-a+ 38]{??}न्तरालाभेन प्रस्थानविघ्नापादकत्वं तदा त्वाह सएव
“प्रकान्ते सप्तमम्मागञ्चतुर्थं पथि सन्त्यजन्। भृति-मर्ङ्घपथे सर्वां प्रदाप्यस्त्याजकोऽपि{??}” इति। प्र-क्रान्ते कर्मणि स्वाङ्गीकृतं कर्म त्यजन् मृत्यो भृतेःसप्तमम्भागं दाप्यः। गमने प्रारब्धे पथि त्यजन् भृते-श्चतुर्थं भागम्। अर्द्ध्वपथे त्यजन् सर्वां भृतिमित्यर्थः। त्याजकोऽपि चेत्यस्यायमर्थः गमनारम्भानन्तरं स्वामीयदि त्याजयति तदा पूर्वोक्तक्रमेण भृयाय सप्तमभा-गादिकं दापनीय इति। एतच्चाव्याधितादिविषयम्व्याधितस्यापराधाभावात्। यच्च स्वामिना त्याजने च तु-र्थभागदापनमुक्तं तदविक्रीतभाण्डस्वामिबिषयम्। वि-क्रातभाण्डस्वामिना यत् कर्त्तव्यं तदाह वृहन्मनुः
“पथि विक्रीय तद्भाण्डंबणिक् भृत्यं त्यजेद् यदि। अथतस्यापि देयं स्याद् भृतेरर्द्ध्वं कभेत सः” इति। पथिभाण्डस्य चौरादिभिः प्रतिरोधे राजादिभिरपहृते स्वा-मिनः कर्त्तव्यमाह कात्यायनः
“यदा च पथि यद्भाण्ड-मारुद्ध्येत ह्रियेत वा। यावानध्वा गतस्तेन प्राप्नुयात् ता-वतो धनम्” इति। तेन भारवाहकस्वीकृतेन यानादिना। भाण्डनेतारं प्रत्याह नारदः
“अनयन्भाटयित्वा तु भा-ण्डयन् यानवाहनम्। दाप्यो भृतिचतुर्भागं सर्वामर्द्ध्वपथेत्यजन्” इति। यानं शकटादि वाहनम् अश्वादि। अय-मर्थः यो यानादिना भाण्डनयनं कर्तुं परकीयंयानादिकं भाटयित्वा प्रापणादिकार्योपाधिकं परिक्रयंकृत्वा तन्न नयति स यानस्वामिने परिकल्पितस्य भाटकस्यचतुर्थाऽंशं दाप्यः। यस्तु तन्नीत्वाऽर्द्धमार्गे त्यजतिस सर्वां भृतिं दाप्य इति। यस्तु शकटादिकं भाटयित्वातमेवोपकारशून्यमादाय देशान्तरं गच्छति भाटकं च नप्रयच्छति तं घ्नत्याह वृद्धमनुः
“यो भाटयित्वा शकटंनीत्वा वाऽन्यत्र गच्छति। भाटं म दद्याद् दाप्यः स्या-दनूढस्यापि भाटकम्” इति। अनूढस्यापि अकृतोप-कारस्यापीत्यर्थः। यस्तु कृते कृत्ये समनन्तरं वाहनादेःसमर्पणं न करोति तस्य समर्पणपर्य्यन्तभाटकदानमाहकात्यायनः
“हस्त्र्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेनमः। नार्पयेत् कृतकृत्यः संस्तावद्दाप्यः स भाटकम्। गृहवार्यापणादीनि गृहीत्वा भाटकेन यः। स्वामिने नार्पयेद्यावत्तावद्दाप्यः स भाटकम्” इति। वारिशब्देन तदाधा-रभूतं पात्रं लक्ष्यते। नार्पयेत् कृतकृत्यः सन्नित्यनुषङ्गः। परभूमौ गृहनिर्माणाय भाटकदातारं प्रत्याह नारदः[Page4961-b+ 38]
“परभूमौ गृहं कृत्वा स्तोमं दत्त्वा वसेत् तु यः। सतद्गृहीत्वा निर्गच्छेत् तृणकाष्ठेष्टकादिकम्” इति। स्तोमम्भाटकं स्तोमाप्रदानेऽप्याह स एव
“स्तोमाद्विनावसित्वा तु परभूमावनिश्चितम्। निर्गच्छंस्तृणकाष्ठानिन गृह्णीयात् कथञ्चन। यान्येव तृणकाष्ठानि त्विष्ट-का विनिवेशिताः। विनिर्गच्छंस्तु तत् सर्वं भूमिखामिनियेदयेद्” इति। स्वामिने निवेदयेदित्यर्थः। अनिश्चित-मिति वदता तृणकाष्ठादिग्रहणाग्रहणपरिभाषावि-हीनविषयमेतदिति दर्शितम्। परिभाषाविषये तु यथापरिभाषितं कर्त्तव्यम्। भाटके गृहीतानां जलपात्रा-दीनां भङ्गे नाशे च विशेषमाह स एव
“स्तोमवा-हीनि भाण्डानि पूर्णकालान्युपानयेत्। गृहीतुराह-रेद्भग्नं नष्टञ्चान्यत्र संप्लवात्” इति। स्तोमवाहीनिभाटकगृहीतानि पूर्वपरिभाषितभाटकानि तत्स्वा-मिनं प्रापयेदिति पूर्वार्द्धार्थः। भग्नमेकदेशेन विकृतंनष्टम् कात्स्न्येन विकृतम्। संप्लवः परस्परसङ्घर्षःतद्भिन्नप्रकारेण यद्भग्नन्नष्टञ्च तद्भाटकगृहीतुर्भवति। संप्लवेन तु यद्भग्नन्नष्टञ्च तद्भाटकदात्रा पूर्ववत् कृत्वा मूल्य-द्वारेण वा देयमित्यर्थः। व्याधितस्य भृत्यस्य स्वामिनापथि त्यागे दण्डमाह कात्यायनः
“त्यजेत् पथि सहायं यःश्रान्तं रोगार्त्तमेव वा। प्राप्नुयात् साहसं पूर्वं ग्रामेत्र्यहमपालयन्” इति। स्वाम्यनुज्ञातेन भृत्येनापराधेकृते सोऽपराधः स्वामिन एवेत्याह वृहस्पतिः
“प्रभुणाविनियुक्तः मन् भृतको विदधाति यत्। तदर्थमशुभंकर्म स्वामी तत्रापराध्नुयाद्” इति। स्वामी कृतकर्मणेभृतकाय यदि न वेतनं ददाति तदाऽसौ राज्ञा दाप-नीयः इत्याह स एव
“कृते कर्मणि यः स्वामी नदद्याद्वेतनं भृते। राज्ञा दापयितव्यः स्याद् वेतनञ्चानु-रूपतः” इति। वेश्यातदुपभोक्तृविषये नारद आह
“शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत्। अ-निच्छन् शुल्कदातापि शुल्कहानिमवाप्नुयात्” इति। एतदव्याधितादिविषयम्। व्याधितादिविषये त्वाह वृह॰स्पतिः
“व्याधिता सश्रमव्यथा राजकार्यपरायणा। आभन्त्रिता च नागच्छेदवाच्या बडवा स्मृता” इति। आमन्त्रिता{??}हूता। वडवा दासी तद्ग्रहणमत्र प-ण्यस्त्रीप्रदर्शनार्थम्। उपभोक्तारं प्रत्याह नारदः
“अप्रयच्छन्नथो शुल्कमनुभूय पुमान् स्त्रियम्। अक्रमेणतु सङ्गच्छेद घातदन्तनखादिभिः। अयोनौ यः समाक्रा-[Page4962-a+ 38] मेद् बहुभिर्वापि वासयेत्। शुल्कं सोऽष्टगुणं दाष्योविनयं तावदेव तु” इति। वेश्यायास्त्वपराधे दण्डा-दिकं मत्स्यपुराणे दर्शितम्
“गृहीत्वा वेतनं वेश्या लो-भादन्यत्र गच्छति। तां दमं दापयेद्दद्यादितरस्यापि भा-टकम्” इति। इतरस्य दत्तशुल्कस्य। तत्रैव विशेषान्तरमुक्तम्
“अन्यमुदिश्य वेश्यां यो नयेदन्यस्य कारणात्। तस्य दण्डो भवेद्राज्ञः सुवर्णस्य च माषकम्। नीत्वाभोगन्न यो दद्याद् दाप्यो द्विगुणवेतनम्। राज्ञश्चद्विगुणं दण्डं तथा धर्मो न हीयते। बहूनां व्रजता-मेकां सर्वे तद् द्विगुणं धनम्। तस्यै दद्युः पृथक्राज्ञे दण्डञ्च द्विगुणम्परम्” इति। अत्र निर्णेतॄनाहनारदः
“वेश्याःप्रधाना यास्तत्र कामुकास्तद्गृहोषिताः। तत्समुत्थेषु कार्य्येषु निर्णयं संशये विदुः” इति।

"https://sa.wiktionary.org/w/index.php?title=वेतनानपाकर्म्मन्&oldid=283196" इत्यस्माद् प्रतिप्राप्तम्