सामग्री पर जाएँ

वेत्रासुरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वेत्रासुरः, पुं, (वेत्रनामकोऽसुरः ।) स्वनाम- ख्यातासुरः । तस्योत्पत्तिर्यथा, -- महातपा उवाच । “आसीद्राजा पुरा राजन् सिन्धुद्वीपः प्रताप- वान् । वारुणांशो महाराजोऽसौऽरण्ये तपसि स्थितः ॥ पुत्त्रो मे शत्रुनाशाय भवेदिति नराधिपः । एवं कृतमतिः सोऽथ महता तपसा स्वकम् । कलेवरं स्थिरो भूत्वा शोषयामास सुव्रतः ॥ प्रजापाल उवाच । कथं तस्य द्विजश्रेष्ठ शक्रेणापकृतं भवेत् । येनासौ तद्विनाशाय पुत्त्रमिच्छन् व्रते स्थितः ॥ महातपा उवाच । सोऽन्यजन्मनि पुत्त्रोऽभूत् त्वष्टुर्बलवतां वरः । अवध्यः सर्व्वशस्त्रौघैरपां फेनेन नाशितः ॥ जलफेनेन निहितस्तस्मिल्लयमवाप्नुयात् । पुणर्ब्रह्मान्वयो जातः सिन्धुद्बीपेतिसंज्ञितः ॥ स तेपे परमं तीव्रं शक्रवैरमनुस्मरन् । ततः कालेन महता नदी वेत्रवती शुभा ॥ मानुषं रूपमास्थाय सालङ्कारा मनोरमम् । आजगाम यतो राजा तेपे परमकं तपः ॥ तां दृष्ट्वा रूपसम्पन्नां स राजा क्रुद्धमानसः । उवाच कासि सुश्रोणि सत्यं कथय भामिनि ॥ नद्युवाच । अहं जलपतेः पत्नी वरुणस्य महात्मनः । नाम्ना वेत्रवती पुण्या त्वामिच्छन्तीह आगता ॥ साभिलाषां परस्त्रीं यो भजमानां विसर्ज्जयेत् । स पापपुरुषो ज्ञेयो ब्रह्महत्याञ्च विन्दति ॥ एवं ज्ञात्वा महाराज भजमानां भजस्व माम् । एवमुक्तस्तया राजा साभिलाषोपभुक्तवान् ॥ तस्य सद्योऽभवत् पुत्त्रो द्वादशार्कसमप्रभः । वेत्रवत्युदरे जातो नाम्ना वेत्रासुरोऽभवत् ॥ बलवानतितेजस्वी प्राग्ज्योतिषः पतिर्भवेत् । स कालेन युवा जातो बलवान् दृढविक्रमः ॥ महायोगेन संयुक्तो जिगाय च वसुन्धराम् । सप्तद्वीपवतीं पश्चान्मेरुपर्व्वतमारुहन् । तत्रेन्द्रं प्रथमं जिग्ये पश्चादग्निं यमं ततः ॥” इति वराहपुराणे देवोत्पत्तिनामाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=वेत्रासुरः&oldid=168313" इत्यस्माद् प्रतिप्राप्तम्