वेदान्तः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वेदान्तः, पुं, (वेदानां अन्तः ।) उपनिषत् । इति हेमचन्द्रः । वेदव्यासप्रणीतदर्शनशास्त्र- विशेषोऽपि । यथा । वेदान्तो नाम उपनिषत्- प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च । इति परमहंसपरिव्राजकाचार्य्यश्रीसदानन्द- योगीन्द्रविरचितवेदान्तसारः ॥ * ॥ “इदानीं सर्व्वस्यापि वस्तुविचारोद्देशपूर्व्वकत्वात् प्रति- ज्ञातं वेदान्तं नामतो निर्दिशति वेदान्त इति । उपनिषद एव प्रमाणं उपनिषत्-प्रमाणम् । उपनिषदो यत्र प्रमाणमिति वा । तदुपकारीणि वेदान्तवाक्यसंग्राहकाणि शारीरकसूत्रादीनि च । शरीरमेव शारीरं तत्र भवो जीवः शारी- रकः स सूत्र्यते याथातथ्येन निरूप्यते यैः तानि शारीरकसूत्राणि ‘अथातो ब्रह्मजिज्ञासा’ इत्यादीनि । आदिशब्दो भाष्यादिसंग्रहार्थः । चशब्दो वेदान्तशब्दानुषङ्गार्थः । यद्बा शारी- रकसूत्राणि तद्यथार्थवादिवेदान्तार्थसंग्रह- वाक्यानि । ‘अथातो ब्रह्मजिज्ञासा’ इत्यादि- सूत्रादीनि । आदिशब्देन भगवद्गीताद्यध्यात्म- शास्त्राणि गृह्यन्ते । तेषामपि उपनिषच्छब्द- वाच्यत्वादिति भावः ।” इति श्रीनृसिंहसरस्वती- कृता तट्टीका सुबोधनी ॥ अस्य नामान्तरं उत्तरमीमांसा । तत्र चत्वारः अध्यायाः । तेषु ब्रह्मनिरूपणम् । तद्विवरणं यथा, -- “अव्यक्तादण्डमभूदण्डाद्ब्रह्मा ततः प्रजासर्गः । मायामयी प्रवृत्तिः संह्रियते पुनः पुनः क्रमशः ॥ मायामयोऽप्यचेता गुणकरणगणः करोति कर्म्माणि । तदधिष्ठाता देही सचेतनोऽपि न करोति किञ्चिदपि ॥ यद्वदचेतनमपि सन्निकटस्थे भ्रामके भ्रमति लोहम् । तद्वत् करणसमूहश्चेष्टति चिदधिष्ठिते देहे ॥ यद्वत् सवितर्य्युदिते करोति कर्म्माणि जीव- लोकोऽयम् । तद्वत्स्वभावभूताः स्वभावतां प्राप्य नश्यन्ति ॥ भिन्ने ज्ञानग्रन्थौ छिन्ने संशयगणे शुभाशुभे क्षीणे । दग्धे च जन्मबीजे परमानन्दं हरिं याति ॥ मोक्षस्य नैव किञ्चिद्धामास्ति न चापि गमन- मन्यत्र । अज्ञानमयग्रन्थेर्भेदो यस्तं विदुर्मोक्षम् ॥ बुद्धैवमसत्यमिदं विष्णोर्मायात्मकं जगद्रूपम् । विगतद्वन्द्बोपाधिकभोगासङ्गो भवेच्छान्तः ॥ बुद्धा विभक्तां प्रकृतिं पुरुषः संसारमध्यगो भवति । निर्मुक्तः सर्व्वकर्म्मभिरम्बुजपत्रं यथा सलिलैः ॥ अश्नन् यद्बा तद्बा संवीतो येन केनचिच्छान्तः । यत्र क्वचन च शायी विमुच्यते सर्व्वभूतात्मा ॥ हयमेधशतसहस्राण्यथ कुरुते ब्रह्मघात- लक्षाणि । परमार्थविन्न पुण्यैर्न च पापः स्पृश्यते विमलः ॥ मदकोपहर्षमत्सरविषादभयपरुषवर्ज्यवात्- बुद्धिः । निस्तोत्रवषट्कारो जडवद्बिचरेदगाधमतिः ॥ उत्पत्तिनाशवर्ज्जितमेवं परमार्थमुपलभ्य । कृतकृत्यः सफलजनुः सर्व्वगतस्तिष्ठति यथेष्टम् ॥ व्यापिनमभिन्नमित्थं सर्व्वात्मानं विधूतनानात्वम् । निरुपमपरमानन्दं यो वेद स तन्मयो भवति ॥ तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् । ज्ञानसमकालं मुक्तः कैवल्यं याति हतशोकः ॥ पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधन- गतिः । पुण्यापुण्यकलङ्कस्पर्शाभावे तु किन्तेन ॥ वृक्षाग्राच्च्युतपादो यद्बदनिच्छन्नरः क्षितौ पतति । तद्वदगुणपुरुषज्ञोऽनिच्छन्नपि केवलीभवति ॥ परमार्थमार्गसाधनमारभ्याप्राप्य योगमपि नाम । सुरलोकभोगभोगी मुदितमना मोदते सुभृ- शम् ॥ विषयेषु सार्व्वभौमः सर्व्वजनैः पूज्यते यथा राजा । भुवनेषु सर्व्वदेवैर्योगभ्रष्टस्तथा पूज्यः । महता कालेन महान् मानुष्यं प्राप्य योग- मभ्यस्य । प्राप्नोति दिव्यममृतं यत्तत् परमं पदं विष्णोः ॥ वेदान्तशास्त्रमखिलं विलोक्य शेषोऽखिला- धारः । आर्य्यापञ्चाशीत्या बबन्ध परमार्थसारमिदम् ॥” इति श्रीशेषनागविरचितं परमार्थसारं समा- प्तम् ॥
