वेदिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वेदिः, स्त्री, (विद्यते पुण्यमस्यामिति । विद् + “हृपिषिरुहिवृतिविदीति ।” उणा० ४ । ११८ । इति इन् ।) परिष्कृता भूमिः । इत्यमरः ॥ परिष्कृता यज्ञार्थं पशुबन्धनाय यज्ञपात्रासाद- नाय चातिसंस्कारा भूमिर्वेदिरुच्यते । सा च डमरुकाद्याकारा पिण्डिका । वेदयति निवा- रयति द्रव्यजातं वेदिः । विद ङ क ञ चेतना- ख्याने वासवादे नाम्नीति इः । वेदिः स्त्री वेदी च । इति भरतः ॥ (यथा, रघुः । ११ । २५ । “वीक्ष्य वेदिमथ रक्तबिन्दुभिः- र्बन्धुजीवपृथुभिः प्रदूषिताम् ॥”) अङ्गुलिमुद्रा । इति मेदिनी ॥ (गृहोपकरण- विशेषः । यथा, भागवते । १० । ४१ । २१ । “वैदूर्य्यवज्रामलनीलविद्रुमै- र्मुक्ताहरिद्भिर्वलभीषु वेदिषु ॥”)
वेदिः, पुं, (वेत्तीति । विद् + इन् ।) पण्डितः । इति मेदिनी ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वेदिः [vēdiḥ], [विद्-इन्] A learned man, sage; Paṇḍita. -दिः, -दी f.
An altar, especially one prepared for a sacrifice; उर एव वेदिः Ch. Up.5.18.2; अमी वेदिं परितः क्लृप्त- धिष्ण्याः (वह्वयः) Ś.4.8.
An altar of a particular shape, the middle points of which come very close to each other; मध्येन सा वेदिविलग्नमध्या Ku.1.39; (some propose to take वेदि in this passage as meaning 'a sealring').
A quadrangular spot in the court-yard of a temple or palace; विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम् (कल्पयामासुः) R.17.9.
A seal-ring.
N. of Sarasvatī.
A tract or region.
Comp. ईशः N. of Agni.
of Brahman. -जा an epithet of Draupadī who was born from the midst of the sacrificial altar of king Drupada. -मेखला the cord which forms the boundary of the उत्तरवेदि.
