सामग्री पर जाएँ

वेद्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वेद्यम्, त्रि, (विद् + ण्यत् ।) वेदितव्यम् । यथा, -- “धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सताम् वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किंवा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्- क्षणात् ॥” इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥ (धनाय हितम् । यथा, ऋग्वेदे । २ । २ । ३ । “रथमिव वेद्यं शुक्रशोचिषमग्निम् ।” “वेद्यं वेदो धनम् । तस्मै हितम् ।” इति तद्भाष्ये सायणः ॥ स्तुत्यम् । तथा, तत्रैव । ५ । १५ । १ । “प्रवेधसे कवये वेद्याय गिरम् ।” “वेद्याय स्तुत्याय ।” इति तद्भाष्ये सायणः ॥ लब्धव्यम् । यथा, वाजसनेयसंहितायाम् । १८ । ११ । “वित्तं च मे वेद्यञ्च मे ।” “वेद्यं लब्धव्यम् ।” इति तद्भाष्ये महीघरः ॥ वेदाय हितमिति । वेद + यत् । बेदहितम् । वेद- प्रतिपाद्यम् । यथा, महाभारते । १३ । १५८ । ३६ । “वेद्यञ्च यत् वेदयते च वेद्यं विधिश्च यश्चाश्रयते विधेयम् । धर्म्मे च वेदे च बले च सर्व्वं चराचरं केशवं त्वं प्रतीहि ॥”)

"https://sa.wiktionary.org/w/index.php?title=वेद्यम्&oldid=168379" इत्यस्माद् प्रतिप्राप्तम्