वेधः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वेधः, पुं, (विध + घञ् ।) वेधनम् । व~धा इति भाषा । तत्पर्य्यायः । व्यधः २ । इत्यमरः ॥ (यथा, महाभारते । १२ । १६८ । ३६ । “वाणवेधे परं यत्नमकरोच्चैव गौतमः ॥”) गभीरता । गहरा इति चाडा इति च भाषा ॥ यथा, -- “गणयित्वा विस्तारं बहुषु स्थानेषु तद्युति- र्भाज्या । स्थानकमित्यासममितिरेवन्दैर्घ्ये च वेधे च ॥ क्षेत्रफलं वेधगुणं खाते घनहस्तसंख्या स्यात् ।” इति लीलावत्यां खातव्यवहारः ॥ * ॥ अथ सप्तशलाकवेधः । “कृत्तिकादिचतुःसप्तरेखाराशौ परिभ्रमन् । ग्रहश्चेदेकरेखास्थो वेधः सप्तशलाकजः ॥” इति दीपिका ॥ * ॥ अथ खर्ज्जूरवेधः । “एकामूर्द्ध्वगतां त्रयोदश तथा तिर्य्यग्गताः स्थापयेत् रेखाश्चक्रमिदं बुधैरभिहितं खार्ज्जूरिकं तत्र तु । व्याघातादि तु मूर्ध्नि भन्तु कथितं तत्रैक्यरेखा- स्थयोः सूर्य्याचन्द्रमसोर्मिथो निगदिता दृक्पात एका- र्गलः ॥” इति रत्नमाला ॥ * ॥ अथ युतवेधः ॥ “पापात् सप्तमगः शशी यदि भवेत् पापेन वा संयुतो यत्नात्तं परिवर्ज्जयेत् मुनिमतो दोषो ह्ययं कथ्यते ॥” अथ यामित्रवेधः । “रविमन्दकुजाक्रान्तं मृगाङ्कात् सप्तमं त्यजेत् । विवाहयात्राचूडासु गृहकर्म्मप्रवेशने ॥” इति रत्नमाला ॥ वामदक्षिणवेधौ वामवेधशब्दे द्रष्टव्यौ ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वेधः [vēdhḥ], 1 Penetrating, piercing, perforation.
Wounding, a wound.
A hole, an excavation.
The depth (of an excavation).
A particular measure of time.
The ninth part of Paridhi; परिधिनवमभागः शूकधान्येषु वेधः Līlā.
Fixing the position of the sun, planets or the stars.
Disturbance. -Comp. -मुख्यः, -मुख्यकः Curcuma Zerumbet (Mar. कचोरा).
