सामग्री पर जाएँ

वैक्रान्तम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैक्रान्तम्, क्ली, (विक्रान्त्या दीव्यति । विक्रान्ति + अण् ।) मणिविशेषः । तत्पर्य्यायगुणौ । “वैक्रान्तञ्चैव विक्रान्तं नीचवज्रं कुवज्रकम् । गोनासः क्षुद्रकुलिशं जीर्णवज्रञ्च गोनसः ॥ वज्राभावे च वैक्रान्तं रसवीर्य्यादिके समम् । क्षयकुष्ठविषघ्नञ्च पुष्टिदं सुरसायनम् ॥ वैक्रान्तं वज्रसादृश्यं वज्रवद्रसवीर्य्यकम् । तथाप्यभावे वज्रस्य ग्राह्यं वैक्रान्तमुत्तमम् ॥ वज्राकारतयैव प्रसह्य हरणाय सर्व्वरोगाणाम् । यद्विक्रान्तिं धत्ते तद्वैक्रान्तं बुधैरिदं कथितम् ॥” इति राजनिर्घण्टः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैक्रान्तम् [vaikrāntam], A kind of gem.

"https://sa.wiktionary.org/w/index.php?title=वैक्रान्तम्&oldid=287957" इत्यस्माद् प्रतिप्राप्तम्