वैतसः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैतसः, पुं, (वेतस एव । स्वार्थे अण् ।) अम्ल- वेतसः । इति जटाधरः ॥ (पुंस्प्रजननम् । शिश्नदण्डम् । इति निघण्टुः । ३ । २९ ॥ यथा, ऋग्वेदे । १० । ९५ । ४ । “दिवा नक्तं श्नथिता वैतसेन ।” “वैतसेन शेपो वैनस इति पुंस्प्रजननस्येति निरुक्तम् । ३ । २१ । पुंस्प्रजननेन श्नथिता ताडिता भवति ।” इति तद्भाष्ये सायणः ॥ * ॥ वेतसस्यायमिति । तस्येदमिति अण् । वेतस- सम्बन्धिनि, त्रि । यथा, रघुः । ४ । ३५ । “आत्मा संरक्षितः सुह्मैर्वृ त्तिमाश्रित्य वैत- सीम् ॥”)
