सामग्री पर जाएँ

वैतानिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैतानिकः, पुं, (विताने भवः । वितान + ठक् ।) श्रौतहोमः । यथा, -- “मरणादेव कर्त्तव्यं संयोगो यस्य नाग्निना । दाहादूर्द्ध्वमशौचं स्याद्यस्य वैतानिको विधिः ॥” इति शुद्धितत्त्वम् ॥ वितानसम्बन्धीये, त्रि । वितानशब्दात् ष्णिक- प्रत्ययेन निष्पन्नमेतत् ॥ (यज्ञादिकार्य्यकारी । यथा च भागवते । १० । ४० । ५ । “त्रय्या च विद्यया केचित् त्वां वै वैतानका द्विजाः । यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥”)

"https://sa.wiktionary.org/w/index.php?title=वैतानिकः&oldid=168594" इत्यस्माद् प्रतिप्राप्तम्