वैदर्भी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैदर्भी, स्त्री, वाक्यरीतिभेदः । इति मेदिनी ॥ यथा, रीतिमाह । “पदसंघटना रीतिरङ्गसंस्था विशेषवत् । उपकर्त्ती रसादीनां -- ॥” रसादीनामर्थात् शब्दार्थशरीरस्य काव्यस्यात्म- भूतानाम् । “--सा पुनः स्याच्चतुर्व्विधा । वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा ॥” सा रीतिः । तत्र । “माधुर्य्यव्यञ्जकैर्वर्णै रचना ललितात्मिका । अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते ॥” यथा । अनङ्गमङ्गलभुव इत्यादि । रुद्रटस्त्वाह । “असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भी । वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुवि- धेया ॥ अत्र दशगुणास्तन्मतोक्ताः श्लेषादयः । “ओजः प्रकाशकैर्व्वर्णैर्ब्बन्ध आडम्बरः पुनः । समासबहुला गौडी -- ॥” यथा । चञ्चद्भुजेत्यादि । पुरुषोत्तमस्त्वाह । बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया । रीतिरनुप्रासमहिमपरतन्त्रा स्तोभवाक्या च ॥” “--वर्णैः शेषैः पुनर्द्वयोः । समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥” द्बयोर्वैदर्भीगौड्योः । यथा, -- “मधुरया मधुबोधितमाधवी- मधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुन्मद- ध्वनिभृता निभृताक्षरमुज्जगे ॥” * ॥ भोजस्त्वाह । “समस्तपञ्चषपदामोजःकान्तिसमन्विताम् । मधुरां सुकुमाराञ्च पाञ्चालीं कवयो विदुः ॥” “लाटी तु रीतिर्व्वैदर्भी पाञ्चाल्योरन्तरा स्थिता ॥” यथा, -- “अयमुदयति मुद्राभञ्जनः पद्मिनीना- मुदयगिरिवनालीबालमन्दारपुष्पम् । विरहविधुरकोकद्बन्द्बन्धुर्विभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥” कश्चिदाह । “मृदुपदसमाससुभगा युक्तैर्बर्णैर्न चातिभूयिष्ठा । उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी ॥” अन्ये त्वाहुः । “गौडी डम्बरबन्धा स्यात् वैदर्भी ललिता क्रमात् । पाञ्चाली मिश्रभावेन लाटी तु मृदुभिः पदैः ॥” क्वचित्तु वक्त्राद्यौचित्यादन्यथा वचनादयः । वक्त्रादीत्यादिशब्दाद्वाच्यप्रबन्धौ वचनादीत्यादि- शब्दाद्वृत्तिवर्णौ । तत्र वक्त्रौचित्याद्यथा । मन्थायस्तार्णवाम्भ इत्यादि । अत्र वाच्यस्य क्रोधाद्यव्यञ्जकत्वेऽपि भोमसेनवक्तृत्वेनोद्धता वच- नादयः । वाच्यौचित्याद्यथोदाहृते । मूर्द्ध- व्याधूयमानेत्यादौ ॥ * ॥ प्रबन्धौचित्याद्यथा । नाटकादौ रौद्रेऽप्यभिनयप्रतिकूलत्वेन न दीर्घ- समासादयः । एवमाख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः । कथायां रौद्रेऽपि नात्यन्त- मुद्धताः । एवमन्यदपि ज्ञेयम् । इति साहित्य- दर्पणे रीतिविवेको नाम ९ परिच्छेदः ॥ * ॥ अगस्त्यपत्नी । इति शब्दरत्नावली ॥ दमयन्ती । यथा, -- “वैदर्भी विपुलानुरागकलना सौभाग्यमत्रा- खिल- क्षौणीचक्रशतक्रतौ निजगदे तद्वृत्तवृत्तक्रमैः । किञ्चास्माकनरेन्द्रभूसुभगता संभूतये लग्नकं देवेन्द्रावरणप्रसादितशचीविश्राणिताशीर्व्वचः ॥ इति उत्तरनैषधे १५ सर्गः ॥ रुक्मिणी । यथा, -- “वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः । प्रगृह्य पाणिना पाणिं प्रहसन् द्विजमब्रवीत् ॥” इति श्रीभागवते १० स्कन्धे ५३ अध्यायः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैदर्भी f. See. below.
वैदर्भी f. a princess of the विदर्भs MBh. Hariv. R. BhP.
वैदर्भी f. N. of the wife of अगस्त्यW.
वैदर्भी f. of दमयन्ती(wife of नल) W.
वैदर्भी f. of रुक्मिणी(one of कृष्ण's wives) W.
वैदर्भी f. = भ-रीति(See. ) Prata1p. Sa1h. Kpr.
वैदर्भी f. the law of विदर्भ(which allowed first cousins to intermarry) W.
वैदर्भी n. the chief city of the -Vid विदर्भ= कुण्डिणL.
वैदर्भी n. ambiguous speech L.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a name of रुक्मिणी. भा. X. ५२. १६-17.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vaidarbha, Vaidarbhī: : See Vidarbha.
_______________________________
*4th word in right half of page p877_mci (+offset) in original book.
Mahabharata Cultural Index