सामग्री पर जाएँ

वैद्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैद्यः, पुं, (विद्यां वेदेति । विद्या + “तदधीते तद्वेद ।” ४ । २ । ५९ । इति अण् ।) पण्डितः । यथा । कात्यायनः । “नाविद्यानान्तु वैद्येन देयं विद्याधनं क्वचित् । समविद्याधिकानान्तु देयं वैद्येन तद्धनम् ॥” तद्वंश्याः सांप्रतं सन्ति हिमोडायाजिगा~पुरे ॥” इति करवंश्यनिर्णयः ॥ “मेढ्यशासनसंभूतौ राजवंशोद्भवावुभौ । शशिराजमसीराजौ वात्स्यगोत्रसमुद्भवौ ॥ एलाचिधामनगरे शशिराजः कृताश्रयः । मसीराजः खेपडीयो वङ्गभूमौ च संस्थितः ॥” इति राजवंश्ये द्बिविधनिर्णयः ॥ “मालग्रामसमुद्भूतो धर्म्मसोमो महामतिः । जातः कौशिकगोत्रे च तद्वंश्या बहुदेशगाः ॥” इति सोमवंश्यनिर्णयः ॥ इति राढाप्रसिद्धाना- मष्टानां सेनादीनां भेदेन वंश्यनिर्णयः ॥ * ॥ “अपरे ये नन्दिचन्द्रौ धरकुण्डौ च रक्षितः । वारेन्द्रा अपि पञ्चैते प्रसिद्धास्तत्र ते पुनः ॥” इति त्रयोदशगृहाणां वैद्यानां यथाक्रमभेदेन कुलनिर्णयः ॥ * ॥ अथ सेनादीनां सामान्यतः सम्बन्धलिखनानुरोधाद्वसतिस्थानमाह । “श्रीखण्डनामनगरी राढे वङ्गे च विश्रुता । सर्व्वेषामेव वैद्यानामाश्रयो यत्र विद्यते ॥ यत्र गोष्ठी कृता वैद्यैर्यः खण्डोऽभूद्भिषक्प्रियः । विशेषतः कुलीनानां सर्व्वेषामेव वासभूः ॥” इति सामान्यतः सकलवैद्यानां वासस्थान- मुक्तम् ॥ * ॥ इति गौराङ्गमल्लिकात्मजभरत- सेनकृतवैद्यकुलतत्त्वम् ॥

वैद्यः, त्रि, वेदसम्बन्धीयः । वेदशब्दात् ष्ण्यप्रत्ययेन निष्पन्नमेतत् ॥

"https://sa.wiktionary.org/w/index.php?title=वैद्यः&oldid=168631" इत्यस्माद् प्रतिप्राप्तम्