वैद्यकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैद्यकम्, क्ली, आयुर्व्वेदः । चिकित्साशास्त्रम् । यथा, -- “यस्य व्याकरणे वरेण्यघटनास्फीताः प्रबन्धा दश प्रख्याता नव वैद्यकेऽपि तिथिनिर्द्धारार्थमेको- ऽद्भुतः । साहित्ये त्रय एव भागवततत्त्वोक्तौ त्रयस्तस्य भु- व्यन्तर्व्वाणि शिरोमणेरिह गुणाः के के न लोकोत्तराः ॥” इति मुग्धबोधव्याकरणशेषे वोपदेवप्रशंसा- श्लोकः ॥ * ॥ तच्छास्त्रकृन्नामानि यथा, -- “ऋग्यजुःसामाथर्व्वाख्यान् दृष्ट्वा वेदान् प्रजा- पतिः । विचिन्त्य तेषामर्थञ्चैवायुर्व्वेदं चकार सः ॥ कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः । स्वतन्त्रसंहितां तस्माद्भास्करश्च चकार सः ॥ भास्करश्च स्वशिष्येभ्य आयुर्व्वेदं स्वसंहिताम् । प्रददौ पाठयामास ते चक्रुः संहितास्ततः ॥ तेषां नामानि विदुषां तन्त्राणि तत्कृतानि च । व्याधिप्रणाशबीजानि साध्वि मत्तो निशामय ॥ धन्वन्तरिर्दिवोदासः काशीराजस्तथाश्विनौ । नकुलः सहदेवोऽर्किश्च्यवनो जनको बुधः ॥ जावालो जाजलिः पैलः कवथोऽगस्त्य एव च । एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ॥ * ॥ चिकित्सातत्त्वविज्ञानं नाम तन्त्रं मनोरमम् । धन्वन्तरिश्च भगवांश्चकार प्रथमे सति ! ॥ चिकित्सादर्पणं नाम दिवोदासश्चकार सः । चिकित्साकौमुदीं दिव्यां काशीराजश्चकार सः ॥ चिकित्सासारतन्त्रञ्च भ्रमघ्नं चाश्विनीसुतौ । तन्त्रं वैद्यकसर्व्वस्वं नकुलश्च चकार सः ॥ चकार सहदेवश्च व्याधिसिन्धुविमर्द्दनम् । ज्ञानार्णवं महातन्त्रं यमराजश्चकार सः ॥ च्यवनो जीवदानञ्च चकार भगवानृषिः । चकार जनको योगी वैद्यसन्देहभञ्जनम् ॥ सर्व्वसारं चन्द्रसुतो जावालस्तन्त्रसारकम् । वेदाङ्गसारं तन्त्रञ्च चकार जाजलिर्मुनिः ॥ पैलो निदानं कवथस्तन्त्रं सर्व्वधरं परम् । द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः ॥ चिकित्साशास्त्रबीजानि तन्त्राण्येतानि षोडश । व्याधिप्रणाशबीजानि बलाधानकराणि च ॥ मथित्वा ज्ञानमन्थानैरायुर्व्वेदपयोनिधिम् । ततस्तन्त्राण्युज्जहरुर्नवनीतानि कोविदाः ॥ एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम् । आयुर्व्वेदं सर्व्वबीजं सर्व्वं जानामि सुन्दरि ! ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥
