सामग्री पर जाएँ

वैधेयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैधेयः, त्रि, (विधिं पद्धतिमेवानुसृत्य व्यवहरति । विधि + ढक् । यद्वा, विधेये कर्त्तव्ये अनभिज्ञः । विधेय + अण् । यद्बा, विरुद्धं धेयमस्य । ततः स्वार्थे अण् । पद्धतिमाश्रित्य क्रियाकारित्वात् युक्तायुक्तविवेकशून्यत्वाच्च तथात्वमस्य ।) मूर्खः । इत्यमरः । ३ । १ । ४८ ॥ (यथा, राजतर- ङ्गिण्याम् । ६ । १५९ । “पुंश्चली जाल्मवैधेयबालकाद्रोग्धृनिभरा । समभूदप्रवेशार्हा राजपर्षन्मनस्विनाम् ॥”) विधिसम्बन्धी विधेयसम्बन्धी च ॥

"https://sa.wiktionary.org/w/index.php?title=वैधेयः&oldid=168651" इत्यस्माद् प्रतिप्राप्तम्