वैन्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैन्यः, पुं, (वेनस्यापत्यं पुमान् । वेन + “कुर्व्वा- दिभ्यो ण्यः ।” ४ । १ । १५१ । इति ण्यः ।) वेनपुत्त्रः । स तु पृथुराजः । यथा, -- “वेनस्य मथिते पाणौ स बभूव महापुमान् । वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः । येन दुग्धा मही पूर्व्वं प्रजानां हितकारणात् ॥” इति वह्रिपुराणे सर्गानुशासननामाध्यायः ॥ (यथाच ऋग्वेदे । ८ । ९ । १० । “पृथी यद्बां वैन्यः सादनेष्वेव ।” “वैन्यो वेनस्य पुत्त्रः पृथी एतत्संज्ञो राजर्षिः ।” इति तद्भाष्ये सायणः ॥)
