सामग्री पर जाएँ

वैराग्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैराग्यम्, क्ली, (विरागस्य भावः । विराग + ष्यञ् ।) विषयतुच्छधीः । यथा, -- “ज्ञानवैराग्ययोर्भक्तिप्रवेशायोपयोगिता । ईषत् प्रथममेवेति नाङ्गत्वमुचितं तयोः ॥ यदुभे चित्तकाठिन्यहेतू प्रायः सतां मते । सुकुमारस्वभावेयं भक्तिस्तद्धेतुरीरिता ॥” यथा एकादशस्कन्धे । “तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥” इति ॥ किन्तु ज्ञानविरक्त्यादिसाध्यं भक्त्यैव सिद्ध्यति । यथा तत्रैव । “यत् कर्म्मभिर्यत्तपसा ज्ञानवैराम्यतश्च यत् । योगेन दानधर्म्मेण श्रेयोभिरितरैरपि ॥ सर्व्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ रुचिमुद्वहतस्तत्र जनस्य भजने हरेः । विषयेषु गरिष्ठोऽपि रागः प्रायो विलीयते ॥ अनासक्तस्य विषयान् यथार्हमुपयुञ्जतः । निर्व्वन्धः कृष्णसम्बन्धे युक्तं वैराग्यमुच्यते ॥ प्रापञ्चिकतया बुद्ध्या हरिसम्बन्धिवस्तुनः ॥ मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते ॥” इति भक्तिरसामृतसिन्धौ पूर्ब्बभागे साधन- लहरी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैराग्यम् [vairāgyam], [विरागस्य भावः ष्यञ्]

Absence of worldly desires or passions, indifference to the world, asceticism; अभ्यासेन च कौन्तेय वैराग्येण च गृह्यते Bg.6.35;13.8.

Dissatisfaction, displeasure, discontent; कामं प्रकृति- वैराग्यं सद्यः शमयितुं क्षमः R.17.55.

Aversion, dislike.

Grief, sorrow.

Change or loss of colour. -Comp. -शतकम् N. of a Bhartṛihari's work (one among the शतकत्रयी).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--detachment and devotion to ज्ञानम्; leads to purification of body and mind. One such person becomes a निर्मम। Br. III. 4. १०; IV. 3. ४५, ६०; वा. ५७. ११७; १०२. ६६, ८२; १०४. १५. [page३-335+ ३१]

"https://sa.wiktionary.org/w/index.php?title=वैराग्यम्&oldid=438065" इत्यस्माद् प्रतिप्राप्तम्