वैराटः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैराटः, पुं, इन्द्रगोपकीटः । इति हेमचन्द्रः ॥ विराटसम्बन्धिनि, त्रि ॥ (क्ली, विपाटपर्व्व । यथा, महाभारते । १ । २ । ५७ । “आरण्येयन्ततः पर्व्व वैराटन्तदनन्तरम् ॥” विराटकन्यायां स्त्री । यथा, तत्रैव । १ । २ । ५८ । “अभिमन्योश्च वैराठ्या पर्व्व वैवाहिकं स्मृतम् ॥” तथा च देवीभागवते । २ । ७ । ४ । “अभिमन्योर्वरा भार्य्या वैराटी चाति- सुन्दरी ॥” विस्तृते च त्रि । यथा, महाभारते । १३ । ७९ । २१ । “वैराटपृष्ठमुक्षाणं सर्व्वरत्नैरलङ्कृतम् । प्रदाय मरुतां लोकान् स राजन् प्रतिपद्यते ॥”)
