वैशाखी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैशाखी, स्त्री, (विशाखया युक्ता पौर्णमासी । “नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ । इत्यण् । ततो ङीप् ।) वैशाखमासस्य पूर्णिमा । यथा, “विशाखातारकायुक्ता वैशाखी पूर्णिमा भवेत् ।” इति शब्दरत्नावली ॥ तत्र तर्पणफलम् । वैशाखीमुपक्रम्य यमः । “गौरान् वा यदि वा कृष्णान् तिलान् क्षौद्रेण संयुतान् । प्रीयतां धर्म्मराजेति पितॄन् देवांश्च तर्पयेत् ॥ यावज्जीवकृतं पापं तत्क्षणादेव नश्यति । अब्दायुतञ्च तिष्ठेत्तु स्वर्गलोके न संशयः ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ रक्तपुनर्नवा । इति राजनिर्घण्टः ॥ (वसुदेवस्य स्त्रीणामन्यतमा । यथा, हरिवंशे । ३५ । २ । “वैशाखी च तथा भद्रा सुनामा चैव पञ्चमा ॥”)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैशाखी f. (with or scil. पौर्णमासी)the day of full moon in the month वैशाखGr2S3rS. MBh. etc.
वैशाखी f. a kind of red-flowering पुनर्नवाL.
वैशाखी f. N. of a wife of वसु-देवHariv. VP.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--one of the १३ wives of Vasudeva, the son of कौशिक. वा. ९६. १६०, १७२.