वैशिष्टम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैशिष्टम्, क्ली, (विशिष्टस्य भावः ।) विशिष्टत्वम् । तत्तु सम्बन्धपदार्थः । विशिष्टधीनियामक इति यावत् । यथा । “विशिष्टवैशिष्टेत्याद्यभ्युपगम- वादः ।” इति शिरोमणिः ॥ दण्डसंयोगवान् इति शाब्दबोधो न विशिष्टवैशिष्टावगाही । खले कपोतन्यायेनैव तत्स्वीकारात् । इति भावः । इति जागदीशी सामान्यलक्षणा ॥ * ॥ (असाधारणत्वम् । यथा, महाभारते । १३ । १५९ । ४१ । “त्रिषु लोकेषु तावच्च वैशिष्टं प्रतिपत्स्यसे । सुप्रियः सर्व्वलोकस्य भविष्यसि जनार्द्दन ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैशिष्टम् [vaiśiṣṭam], = वैशिष्ट्य below.