सामग्री पर जाएँ

वैशेषिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैशेषिकः, पुं, (विशेषं वेत्ति अधीते वा । विशेष + ठक् ।) कणादमुनिकृतदर्शनशास्त्रवेत्ता । तत्- पर्य्यायः । औलुक्यः २ । इति हेमचन्द्रः ॥ (विशेषमधिकृत्य कृतो ग्रन्थः । विशेषः + “अधि- कृत्यकृते ग्रन्थे ।” ४ । ३ । ८७ । इति ठक् ।) कणादमुनिकृतदर्शनशास्त्रविशेषः । स तु विशेष- पदार्थनिरूपकग्रन्थः । अस्य मतं न्यायदर्शनमत- तुल्यम् । अत्र जगतः कारणं परमाणुपर्य्यन्तं निरूपितम् ॥ * ॥ इह खलु निखिलप्रेक्षावन्- निसर्गप्रतिकूलवेदनीयतया निखिलात्मसंवेदन- सिद्धं दुःखं जिहासतस्तद्धानोपायं जिज्ञासुः परमेश्वरसाक्षात्कारमुपायमाकलयति । “यदा चर्म्मवदाकाशं वेष्टयन्तीह मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥” इत्यादिवचननिचयप्रामाण्यात् । परमेश्वरस्य साक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः । यदाह । “आगमेनानुमानेन ध्यानाभ्यासबलेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥” इति ॥ तत्र मननमनुमानाधीनम् । अनुमानञ्च व्याप्ति- ज्ञानाधीनम् । व्याप्तिज्ञानञ्च पदार्थविवेकसा- पेक्षम् । अतः पदार्थषट्कम् “अथातो धर्म्मं व्याख्यास्यामः ।” इत्यादिकायां दशलक्षण्यां कणभक्षेण भगवता व्यवस्थापि । तत्राह्निकद्बया- त्मके प्रथमेऽध्याये समवेताशेषपदार्थकथनम- कारि । तत्रापि प्रथमाह्रिके जातिमन्निरूपणम् । द्वितीयाह्रिके जातिविशेषयोर्निरूयणम् । आह्निकद्वयात्मके द्बितीये भूतदिक्काललक्षणम् । तत्रापि प्रथमाह्निके भूतविशेषलक्षणम् । द्बितीये दिक्कालप्रतिपादनम् । आह्निकद्वयात्मके तृतीये आत्मान्तःकरणलक्षणम् । तत्राप्यात्मलक्षणं प्रथमे । द्वितीये अन्तःकरणलक्षणम् । आह्निक- द्वययुक्ते चतुर्थे शरीरतदुपयोगिविवेचनम् । तत्रापि प्रथमे तदुपयोगिविवेचनम् । द्बितीये शरीरविवेचनम् । आह्रिकद्वयवति पञ्चमे कर्म्म- प्रतिपादनम् । तत्रापि प्रथमे शरीरसम्बन्धि- कर्म्मचिन्तनम् । आह्रिकद्वयशालिनि षष्ठे श्रौतधर्म्मनिरूपणम् । तत्रापि प्रथमे दानप्रति- ग्रहधर्म्मविवेकः । द्वितीये चातुराश्रम्योचित- धर्म्मनिरूपणम् । तथाविधे सप्तमे गुणसमवाय- प्रतिपादनम् । तत्रापि प्रथमे बुद्धिनिरपेक्षगुण- प्रतिपादनम् । द्वितीये तत्सापेक्षगुणप्रतिपादनं समवायप्रतिपादनञ्च । अष्टमे निर्व्विकल्पक- सविकल्पकप्रत्यक्षप्रमाणचिन्तनम् । नवमे बुद्धि- विशेषप्रतिपादनम् । दशमे अनुमानप्रतिपाद- नम् । तत्र उद्देशो लक्षणं परीक्षा चेति त्रिविधास्य शास्त्रस्य प्रवृत्तिः । इति वैशेषिक- ग्रन्थविवरणम् ॥ * ॥ (न्यायमते आत्मादिगतपारिभाषिकगुणः । यथा, भाषापरिच्छेदे । “बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको- द्रवः । अदृष्टभावना शब्दा अमी वैशेषिका गुणाः ॥” विशेष एव । “विनयादिभ्यष्ठक् ।” ५ । ४ । ३४ । इति स्वार्थे ठक् ॥ असाधारणे, त्रि । यथा, महाभारते । ७ । ५ । १५ । “युगपन्नतु ते शक्या कर्त्तुं सर्व्वे पुरःसरा । एक एव तु कर्त्तव्यो यस्मिन् वैशेषिका गुणाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=वैशेषिकः&oldid=168763" इत्यस्माद् प्रतिप्राप्तम्