वैश्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैश्यः, पुं, (विश् + ष्यञ् ।) ब्रह्मोरुदेशजाततृतीय- वर्णः । (यथा, ऋग्वेदे । १० । ९ । १२ । “ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥”) तत्पर्य्यायः । ऊरव्यः २ ऊरुजः ३ अर्य्यः ४ भूमिस्पृक् ५ विट् ६ । इत्यमरः ॥ द्विजः ७ । इति जटाधरः ॥ भूमिजीवी ८ । इति शब्द- रत्नावली ॥ व्यवहर्त्ता ९ वार्त्तिकः १० बणिकः ११ पणिकः १२ । इति राजनिर्घण्टः ॥ प्लक्ष- द्बीपे अस्य संज्ञा ऊर्द्ध्वायनः । शाल्मलद्बीपे वसुन्धरः । कुशद्वीपे अभियुक्तः । क्रौञ्चद्बीपे द्रविणः । शाकद्बीपे दानव्रतः । पुष्करद्बीपे सर्व्वे एकवर्णाः । इति भागवतमतम् ॥ अस्य शास्त्रनिरूपितधर्म्मास्त्रयः । अध्ययनम् १ यज- नम् २ दानम् ३ । चतस्रो जीविकाः । कृषिः १ गोरक्षणम् २ बाणिज्यम् ३ कुशीदम् ४ । अस्याश्रमास्त्रयः । ब्रह्मचर्य्यम् १ गार्हस्थ्यम् २ बानप्रस्थम् ३ ॥ तस्य लक्षणादिर्यथा, -- “विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः । वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः ॥ वैश्यस्य च प्रवक्ष्यामि यो धर्म्मो वेदसम्मतः । दानमध्ययनं शौचं यज्ञश्च धनसञ्चयः ॥ पालयेच्च पशून् वैश्यः पितृवद्धर्म्ममर्ज्जयन् । विकर्म्म तद्भवेदन्यत् कर्म्म यत् स समाचरेत् ॥ रक्षया स हि तेषां वै महत् सुखमवाप्नुयात् । प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे प्रजाः ॥ ब्राह्मणेभ्यश्च राज्ञे च सर्व्वाः परिददे प्रजाः । तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ॥ षण्णामेका पिबेद्धेनुं शताच्च मिथुनं भवेत् । लब्धाच्च सप्तमं भागं तथा शृङ्गैकलक्षुरे ॥ शस्यानां सर्व्वबीजानि एषा सांवत्सरी भृतिः । न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ॥ वैश्ये रक्षति नान्येन रक्षितव्याः कथञ्चन ॥” इति पाद्मे स्वर्गखण्डे वर्णविभागः २६ अः ॥ अन्यच्च । “दानमध्ययनं यज्ञो धर्म्मः क्षत्त्रियवैश्ययोः । दण्डस्तथा क्षत्त्रियस्य कृषिर्वैश्यस्य शस्यते ॥ स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् । वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तताम् ॥” इति गारुडे ४९ अध्यायः ॥ (वैश्यसम्बन्धिनि, त्रि । यथा, महाभारते । १२ । ६२ । ४ । “क्षात्त्राणि वैश्यानि च सेवमानः शौद्राणि कर्म्माणि च ब्राह्मणः सन् । अस्मिल्लोके निन्दितो मन्दचेताः परे च लोके निरयं प्रयाति ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैश्यः [vaiśyḥ], A man of the third tribe, his business being trade and agriculture; a peasant; विशत्याशु पशुभ्यश्च कृष्यादावरुचिः शुचिः । वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः ॥ Padma Purāṇa. (He is supposed to have sprung from the thighs of Puruṣa;. cf. ऊरू तदस्य यद्वैश्यः Ṛv.1.9.)-Comp. -कर्मन् n., -वृत्तिः f. the business or occupation of a Vaīśya; trade, agriculture &c. -भावः the state or condition of a वैश्य; ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति Ms.1.93.
