वैश्वदेवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैश्वदेवः, पुं, (विश्वदेवस्यायम् । विश्वदेव + अण् ।) विश्वदेवसम्बन्धिहोमादिः । यथा, -- ब्रह्मोवाच । “वैश्वदेवं प्रवक्ष्यामि होमलक्षणमुत्तमम् । पर्य्युक्षणमग्निं पर्य्युक्ष्य । क्रव्यादमग्निं प्रहिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः । इहैवाय- मितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् । ओ~ पावक वैश्वानर इदमासनम् । अवनीगर्भ- संस्कृतः तेजोरूपो महाब्रह्मन्नमुहूर्त्तास्त्रिषु वैश्वानरं प्रतिबोधयामि । वैश्वानरोऽत्र उभयं प्रायातु परावतः । अग्निर्नः मुष्णतीरुपपृष्टे दिवि पृष्टोऽग्निः पृथिव्यां पृष्टो विश्वा ओषधी- राविवेश । वैश्वानरः सहसा पृष्टोऽग्निः स वोऽग्निः खं दिवा सर्व्वस्मात्तु नक्तं ओ~ प्रजापतये स्वाहा । सोमाय स्वाहा । बृहस्पतये स्वाहा । अग्नीषोमाभ्यां स्वाहा । इन्द्राग्नीभ्यां स्वाहा । द्यावापृथिवीभ्यां स्वाहा । धन्वन्तरये स्वाहा । इन्द्राय स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुव स्वः स्वाहा । देवकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा । पितृकृतस्यैनसोऽवयजनमसि स्वाहा । आत्म- कृतस्यैनसोऽवयजनमसि स्वाहा । एनस एनसो- ऽवयजनमसि स्वाहा । यच्चाह मे विद्वांश्चकार यच्चाविद्वांस्तस्य सर्व्वस्यैनसोऽवयजनमसि स्वाहा । अग्नये स्विष्टिकृते स्वाहा । सूर्य्याय स्वाहा । प्रजापतये स्वाहा । वनस्पतये स्वाहा । अद्भ्यः स्वाहा । ओषधिवनष्पतिभ्यः स्वाहा । गृहाय स्वाहा । देहदेवताभ्यः स्वाहा । वास्तु- देवताभ्यः स्वाहा । इन्द्राय स्वाहा । इन्द्र- पुरुषेभ्यः स्वाहा । यमाय स्वाहा । यमपुरुषेभ्यः स्वाहा । वरुणाय स्वाहा । वरुणपुरुषेभ्यः स्वाहा । सोमाय स्वाहा । सोमपुरुषेभ्यः स्वाहा । ब्रह्मणे स्वाहा । ब्रह्मपुरुषेभ्यः स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । सर्व्वेभ्यो भूतेभ्यः स्वाहा । दिवारात्रिभ्यः स्वाहा । रक्षोभ्यः स्वाहा । स्वधा पितृभ्यः स्वाहा । ये भूताः प्रचरन्ति दिवा चरन्ति दिवाचरमिच्छन्तो भुवनस्य मध्ये तेभ्यो बलिं पुष्टिकामो ददामि । मयि पुष्टिं पुष्टिपतिर्ददातु । श्वचाण्डालपतित- वायसेभ्यः ।” इति गारुडे वैश्वदेवविधिः २१९ अध्यायः ॥ * ॥ तस्य प्रयोगो यथा । पूर्व्वाभि- मुखः शुचिरुपवीती कुशहस्तः कुशासनोपविष्टः कर्त्ता घृताक्तं दुग्धाक्तं तैलाक्तं जलाक्तं अन्नं आमान्नं वा फलं जलं वा जुहुयात् । यथा जले ओ~ भूः स्वाहा । ओ~ भुवः स्वाहा । ओ~ स्वः स्वाहा । ओ~ भूर्भुवः स्वः स्वाहा । ओ~ देव- कृतस्यैनसोऽवयजनमसि स्वाहा । ओ~ पितृ- कृतस्यैनसोऽवयजनमसि स्वाहा । ओ~ मनुष्य- कृतस्यैनसोऽवयजनमसि स्वाहा । ओ~ आत्म- कृतस्यैनसोऽवयजनमसि स्वाहा । ओ~ यद्दिवा च नक्तञ्चैनश्चकृम तस्यावयजनमसि स्वाहा । ओ~ यत् स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्याव- यजनमसि स्वाहा । ओ~ यद्विद्वांसश्चाविद्बांस- श्चैनश्चकृम तस्यावयजनमसि स्वाहा । ओ~ एनसः एनसोऽवयजनमसि स्वाहा । ओ~ अग्नये स्विष्टि- कृते स्वाहा । इत्यनेन जुहुतात् । इति वैश्व- देवकर्म्म । इत्याह्रिकप्रयोगतत्त्वम् ॥ (विश्वदेव एव । स्वार्थे अण् । गणदेवताविशेषः । बन्धुभिरकृतविवादस्यैव वैश्वदेवलोकप्राप्तिः । यथा, मनौ । ४ । १८३ । “यामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः । सम्बन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ॥” विश्वदेवसम्बन्धिनि, त्रि । यथा, महाभारते । १२ । ३०१ । ८ । “आसुरान् विषयान् ज्ञात्वा वैश्वदेवांस्तथेव च ॥”)
