सामग्री पर जाएँ

वैश्वानरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैश्वानरः, पुं, (विश्वश्चासौ नरश्चेति । “नरे संज्ञायाम् ।” ६ । ३ । १२९ । इति दीर्घः । ततो विश्वानर एव । स्वार्थे अण् । यद्वा, “विश्वान् नरान् इतो लोकात् लोकान्तरं नयति । इद- मर्थेन विश्वानराणां नेतृत्वेन सम्पद्यन्ते वा कर्म्मार्थप्रणेतृत्वेन सम्पादिनोऽस्य वैश्वानरः । ‘अन्येषामपि दृश्यते ।’ ६ । ३ । १३७ । इति दीर्घः । अपि वा विश्वान् जन्तून् अरः । ऋ गतौ इत्यस्य छान्दसत्वात् पदाद्यच् उपपदविभ- क्तेश्चालुक् । सर्व्वाणि भूतानि अरः प्रत्यृतः प्रतिगतः प्रविष्टति विश्वानरः प्राणः । तेन जन्यमानत्वात् तस्यापत्यं वैश्वानरः ॥” इति निघण्टुटीकायां देवराजयज्वा । ५ । १ ।) अग्निः । (यथा, गीतायाम् । १५ । १४ । “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाभ्यन्नं चतुर्व्विधम् ॥”) चित्रकवृक्षः । इत्यमरः ॥ अग्नेस्तन्नामकारणं यथा, -- “तथापि दद्मि वो रूपे द्वे द्बे प्रत्येकशोऽधुना । भूतकार्य्येष्वभूतेन देवलोके तु मूर्त्तिना ॥ तिष्ठध्वमपि कालान्ते लयं त्वाविशत् द्रुतम् । शरीराणि पुनर्न्नैवं कर्त्तव्योऽहमिति क्वचित् ॥ मूर्त्तानाञ्च तथा तुभ्यं दद्मि नामानि वोऽधुना । अग्निर्व्वैश्वानरो नाम प्राणापानौ तथाश्विनौ ॥ भविष्यति तथा गौरी हिमशैलसुता तथा । पृथिव्यादिगणस्त्वेष गजवक्त्रो भविष्यति ॥ शरीरधातवस्त्वेते नानाभूतानि एव तु । अहङ्कारस्तथा स्कन्दः कार्त्तिकेयो भविष्यति ॥” इति वाराहे आदित्रेतायां महातपोपाख्यान- नामाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=वैश्वानरः&oldid=168778" इत्यस्माद् प्रतिप्राप्तम्