सामग्री पर जाएँ

वैष्णवाचमनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैष्णवाचमनम्, क्ली, (वैष्णवस्याचमनम् ।) विष्णु- पूजादिपूर्ब्बकर्त्तव्यकर्त्तृसं स्कारकाङ्ग--ओ~कारादि- नमोऽन्तचतुर्थ्यन्ततत्तन्नामोच्चारणपूर्ब्बकत्रिर्ज्जल- पानादि । यथा, -- “त्रिःपाने केशवं नारायणं माधवमप्यथ । प्रक्षलने द्बयोः पाण्योर्गोविन्दं विष्णुमप्युभौ ॥ मधुसूदनमेकञ्च मार्ज्जनेऽन्यं त्रिविक्रमम् । उन्मार्ज्जनेऽप्यधरयोर्व्वामनश्रीधरावुभौ ॥ प्रक्षालने पुनः पाण्योर्हृषीकेशञ्च पादयोः । पद्मनामं प्रोक्षणे तु मूर्द्ध्नि दामोदरं ततः ॥ वासुदेवं मुखे सङ्कर्षणं प्रद्युम्नमित्युभौ । नासयोर्नेत्रयुगलेऽनिरुद्धं पुरुषोत्तमम् ॥ अधोक्षजं नृसिंहञ्च कर्णयोर्नाभितोऽच्युतम् । जनार्द्दनञ्च हृदये उपेन्द्रं मस्तके ततः ॥ दक्षिणे तु हरिं बाहौ वामे कृष्णं यथाविधि । नमोऽन्तञ्च चतुर्थ्यन्तमाचामेत् क्रमतो जपन् ॥ अशक्तः केवलं दक्षं स्पृशेत् कर्णं तथा च वाक् ॥ कुर्व्वीतालभनं वापि दक्षिणश्रवणस्य वै ॥” तथा च वाक् इति यतस्तथैव वचनमस्ति । कुर्व्वीतालभनं वापीति मार्कण्डेयपुराणवचन- मतो न पौनरुक्तम् । इति श्रीहरिभक्तिविलासे ३ विलासः ॥

"https://sa.wiktionary.org/w/index.php?title=वैष्णवाचमनम्&oldid=168792" इत्यस्माद् प्रतिप्राप्तम्