सामग्री पर जाएँ

वैष्णवाचारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वैष्णवाचारः, पुं, (वैष्णवानामाचारः ।) विष्णु- भक्तानामाचरणम् । यथा, -- “अथाचारा बहुविधाः शिष्टाचारानुसारतः । श्रीवैष्णवानां कर्त्तव्या लिख्यन्तेऽत्र समासतः ॥” अथाचाराः श्रीविष्णुपुराणे और्व्वसगरसंवादे गृहस्थाचारकथनारम्भे । “देवगोब्राह्मणान् सिद्धान् वृद्धाचार्य्यांस्तथा- र्च्चयेत् । द्विकलञ्च नमेत् सन्ध्यामग्नीनुपचरेत्तथा ॥ सदानुपहते वस्त्रे प्रशस्ताश्च तथौषधीः । गारुडानि च रत्नानि विभृयात् प्रयतो नरः ॥ प्रसिद्धामलकेशश्च सुगन्धिश्चारुवेशधृक् । किञ्चित् परस्वं न हरेत् नाल्पमप्यप्रियं वदेत् । प्रियञ्च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् । नान्याश्रयं तथा वैरं रोचयेत् पुरुषेश्वरः ॥ न दुष्टयानमारोहेत् कुलच्छायां न संश्रयेत् । विद्बिष्टपतितोन्मत्तबहुवैरातिकीटकैः ॥ बन्धकीबन्धकीभर्त्तृक्षुद्रानृतकथैः सह । तथातिव्ययशीलैश्च परिवादरतैः शठैः ॥ बुधो मैत्रीं न कुर्व्वीत नैकः पन्थानमाश्रयेत् । नावगाहेज्जलौघस्य वेगमग्रे जनेश्वर ॥ प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः । न कुर्य्याद्दन्तसङ्घर्षं न कृष्णीयाच्च नासिकाम् । नासंवृतमुखो जृम्भेत् श्वासकासौ विवर्ज्जयेत् । नोच्चैर्हसेत् सशब्दञ्च न मुञ्चेत् पवनं त्वधः ॥ नखान्न वादयेच्छिन्द्यान्न तृणं न महीं लिखेत् । यदत्र लिखितं किञ्चित्तत् क्षन्तव्यं महात्मभिः ॥ आचाराश्चेदृशाः सन्ति परेऽपि बहुलाः सताम् । ते लोकशास्त्रतो ज्ञेया अपेक्ष्या यदि वैष्णवैः ॥ नित्यत्वमेषां माहात्म्यमप्यत्र लिखितात् पुरा । सदाचारस्यनित्यत्वान्माहात्म्याच्च सुसिद्ध्यति ॥” इति श्रीहरिभक्तिविलासे तित्यकृत्यसमापनो नाम ११ विलासः ॥

"https://sa.wiktionary.org/w/index.php?title=वैष्णवाचारः&oldid=168794" इत्यस्माद् प्रतिप्राप्तम्