सामग्री पर जाएँ

वोढव्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वोढव्यः, त्रि, वहधातोस्तव्यप्रत्ययेन निष्पन्नमेतत् । वहनीयः । वाह्यः । इति मुग्धबोधव्याकरणम् ॥ (यथा, हरिवंशे । ७५ । ८८ । “वोढव्या पुङ्गवेनेव धूःसदा रणमूर्द्धनि ॥” परिणेतव्यः । यथा, महाभारते । १२ । ४४ । ४५ । “न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा ॥”)

"https://sa.wiktionary.org/w/index.php?title=वोढव्यः&oldid=168811" इत्यस्माद् प्रतिप्राप्तम्